पृष्ठम्:विमानार्चनाकल्पः.pdf/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 विमानार्चनाकल्पे महाशास्त्रे

    अग्निहोत्रहवणी षड्विंशत्यंगुलायामा अधस्तात्षोडशांगुलदण्ड

द्वादशांगुलपरिणाहा तदूर्ध्वं पञ्चांगुलायामं वृत्तं मध्येनिम्नंभागं, परितोभित्तिरेकांगुला, तस्मादग्रान्तं घृतधारायुत मेकांगुलविस्तारं च्चंश्रम्, अग्रादधस्तात् पञ्चांगुलमानुपूर्व्येणसंक्षिप्तं घृतधारापा र्श्वयोरेकांगुलं, भित्तिरधांगुला उपरिछत्राकारं घनंभागमेवं कारयेत्।

    जुहू प्रमाणं द्वितालायामं, द्वादशांगुलपरीणाहं मूलं पद्ममुकुळाकारं,

अग्रेचाष्टांगुलायामं, चतुरंगुलविस्तारं, द्वादशांऽगु (षडंगु) लोन्नतं, मध्येनिम्नमर्धागुलम्, भित्तिरेकांगुला, घृतधारायुतम्, ऊर्ध्वेमुकुळाकारम्, अधस्ताद्दण्डाकारं कारयेत् ।

    उपजुहूप्रमाणं द्वितालायामं, द्वादशांगुलपरिणाहम्, अग्रअष्टां

ऽगुलायामं, समवृत्तं, भित्तिरर्धागुला, घृतधारायुतमेवं कारयेत्।

    दर्वी तालद्वयायामा, अग्रेपञ्चांगुलायामविस्तारा, मूलेभाग

विस्तारायामा, अग्राच्चमूलादारभ्थमध्ये क्रमात् गोळकंक्षीणं, घनमेकांगुलमेवं कारयेत् ।

                 सभाराहरणम्
    पालाशाश्वत्थबिल्वशमीखदिरवटोदुंबरसमिधो गृहीत्वा, कार्पा-

सतन्तून् साग्रन् दशदर्भान् (कुशकाश) विश्वामित्रादीन्वाऽऽहृत्य, याज्ञिकैर्वृक्षैर्व्दितालायामा स्तवर्धविस्तारा श्चतुरंगुलघनश्र्चतुरश्रा: फलकाः कारयित्वा, तन्मध्ये सप्तांगुलोत्सेधान्, श्रीवत्सोदकुंभभेर्याऽऽदर्शन मत्स्च- युग्मांऽकुशशंखाऽऽवर्त्तासीन अष्टमङ्गलानि कृवा तथा चक्रशङ्गगदाशार्ङा- सीन् पञ्चायुधानि कारयेत् ।

    वस्त्रं द्वादशाष्टसप्तषड्ढस्तानामन्यतमायामं, पञ्चचतुस्तालविस्तृतं

स्नापनार्थं, हविरर्थं च यानिद्रव्याणितानि, होमार्थं घृतं (पयो) दधि च, अष्टधान्यानि, शालीय तंडुलान्, दीपार्थं घृतं, तैलंवा ; अक्ष्युन्मोचनार्थं सवत्सांगां, सुवर्ण पात्रं, उलिकां सूचीं दृढकरीं च सुवर्णेन कृत्वा, कुंभप्रक्षेपणार्थं पीठन्यासार्थं च रत्नधातुबीजानि चाऽऽहरेत् । सुवर्णेन प्रतिसरमंगुलीयकाद्याभरणानि च, आढकपूर्णान् कलशान्, द्रोणार्धपूर्णान् करकान् द्रोणपूर्णान् घटान्, द्रोणद्वयपूर्ण प्रधान कुंभं, प्रस्थपूर्णान् शरावान्, प्रस्थार्धपूर्णाः प्रणिधीः, तथैवाज्यस्थाली:, प्रोक्षणपात्राणि,