पृष्ठम्:विमानार्चनाकल्पः.pdf/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 29 131

यद्दिनेकर्त्तुमुद्योग स्तद्दिनात्पूर्वस्मिन् दिने अंकुरार्पणं कुर्यात्। आलयात्पुरतो दक्षिणे वा यागशालांषोडशस्तंभ संयुक्तां त्रिपंङ्तिं चतुरश्रांकुर्यात् ।।

              शय्यावेदिः प्रपादिश्च
     तद्विमाननिर्देशहस्तेन त्रिहस्तादिपञ्चहस्तान्तं पाद हस्तविवृध्द्या

नवधाभित्तिमानं तस्यस्थले तालंव्दि (लवि) भागं, तदर्धं, पादोच्चं ; भित्तिमानसमं पादाधिक, मर्धाधिकं, पदोनद्विगुणं द्विगुणं वा शध्यावेदिविस्तारं ; भित्तिमानसमं पादोनमर्धं, बिंबार्धाधिकं त्रिपादाधिक द्विगुणं, अर्धाधिकद्विगुणं, त्रिगुणं वा, तच्चतुर्थांशमुत्सेधं ; तदूर्ध्वे कूटंवर्षनिवारणंकृत्वा तत्परितः प्रपां चतुर्व्दारसमायुक्तां चतुस्तोरणभूषितां कृत्वा तत्सर्वंवितानध्वजदर्भमालातरंगसस्तंभवेष्टनमुक्तादामाद्यैरलंकृत्य, दर्भमालारज्जुं पर्वणि पर्वणि द्विताललंबदर्भद्वययुक्तां, मध्येऽरत्निमात्रत्रिशूल युतानि तोरणानि कारयित्वा ‘अग्निमीले' (ऋ० सं०-१-१-१) इति प्राग्द्वारे चाश्वत्थम् ; 'इषेत्वोर्जेत्वे' ति दक्षिणे चौदुम्बरं; ‘अग्नआयाही' ति पश्चिमेप्लक्षं ; 'शन्नोदेवी' रिति उत्तरेवटंचैव द्वारेषुसंस्थाप्य तद्वारपार्श्चे कदलीक्रमुकोद कुंभदीपांऽकुराद्यैरलंकृत्य तन्मध्ये शय्यावेदिं परितश्चाऽग्नि- कुंडानि कारयेत् ॥

                    अरण्यादिमानम्
    अरण्यर्थमश्वत्थ शमीजातमन्यंवासंगृह्य द्वितालायामांषोडशां

(षडं) गुलविस्तृतांभागोत्सेधामरणीं तत्समांचोर्ध्वपलकां द्वितालायामं प्रादेशपरिणाह मूलाग्रयोरेकांगुलि मात्रशिखायुक्तं मन्थदण्डञ्चकृत्वा मौञ्ज्यात्रिवृतांरज्जं मन्थनाय समाहारेत्; खदिराश्वत्थबिल्वाद्यैर्यज्ञ- वृक्षैर्यज्ञपात्राणिकृर्यात्।

                    स्रुवादिस्वरूपम्
       स्रुवस्यास्चाऽऽथामं द्विप्रादेशं, मूलंप्रादेशपरिणाहं, तदर्धमग्रनाहं,

मूलाग्रयो: एकांऽगुलमात्रशिखायुक्तं, बिलादर्वागानुपूर्व्येण संक्षिप्तम्, अग्रे प्रादेशपरिमण्डलं, गोळकं बिलविस्तारं, भाषाच्छादनगर्त्तव्दययुत मेवं स्रुवंकारयेत् ।