पृष्ठम्:विमानार्चनाकल्पः.pdf/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल27 12 सद्योऽङ्कुरार्पणप्रकदि अंकुरार्पणस्य फलम् एवं कर्तुमशक्तः सद्य एवाऽऽसन्नेषीकुरार्प- णोक्त क्रियाः सर्वाः कृत्वा श्वेततण्डुलैः, पद्माघैः श्वेतपुष्पैश्व पालिकादीन् तत्तन्मन्त्रेण पूरयित्वा आरभेत । दिवांऽकुरार्पणं न कुर्यात् कुर्या चेद्विनाशायभवति, एवमंकुरार्पणेकृते देवःप्रीतोभवेत्, अंकुरार्पणहीने कृतंकार्यं सर्वनिष्फलं भवति, तस्मात्सर्वप्रयत्नेन अंकुरार्पणं कृत्वा सर्वकर्म समारभेदित्याह मरीचिः । इति श्रीवैखानसे मरीचिप्रोक्ते विमनार्चनाकल्पे अंकुरार्पणविधिर्नाम षड्विंशः पटलः ॥२६॥ 3 अथ सप्तविंशः पटल: प्रतिष्ठाभासादिकम् अथातोभगवतो नारायणस्य प्रतिष्ठाविधिं व्याख्यास्याभ: - उदगयने फाल्गुन, चैत्र, वैशाख,तैष् ज्येष्ठेघूत्तमम्; दक्षिणायने श्रवणा श्वयुजकार्तिकषु मध्यमम्; प्रौष्ठपदाषाढयोरधमम्, मार्गशीर्षमाघविवर्जयेत्, उत्तरात्रयरोहिणीश्रवणपुष्यपुनर्वसु स्वाती हस्त चित्ताऽनूराधाऽश्विनीषु सितेपक्षे पक्षछिद्रां विवर्ज्य्, कृष्णपक्षे प्रथमाद्वितीयपंचमीषु, सोमगुरु सौम्यकाव्यवारेषु, करणेषुविशिष्टेषु ध्रुवेषुवरेषु वा, विष्टिंमष्टविधांत्यक्त्वा, चरराशिंविहाय, स्थिरराशौ, उभयराशौ वा, श्रेष्ठंविष्णोः प्रतिष्टांकुर्यात् आर्द्राप्लेषमूलनक्षत्रेषु, कृष्णाष्टम्यामुल्कापातेऽशनिपाते दिग्दाहेपांसुलो हितोपलवर्षव्यतीपातभूकंपाऽतिमारूत राजमरणचन्द्रसूर्योपरागयुक्तेषु ऋक्षेषु रात्रौ च परिवर्जयेत् ।

              आचार्यलक्षणम्

वैखानससूत्रेण निषेकादिसंस्कारक्रियायुक्तान् विप्रान् वेदविदः शुद्धन् शुद्धित्रयोपेतान्वैष्णवान्वयस्संपन्नान्सुमनस्कान् अर्चनादिसर्बप्रयोगज्ञान् मन्त्रकल्पंविदः श्रोत्रियान् अग्निसंपन्नान् आहूय तेषु ज्ञानोत्कटं शुभदर्शनं श्रुतबृत्तशील संपन्नम् एकं गुरुं वरयेत्, हीनदीर्घाऽतिरिक्तांऽगकाल . मत्सराऽपस्मारकुष्ठोन्मादोदर शर्करामधुमेहादि व्याधियुतान् कुनखक्ष्या