पृष्ठम्:विमानार्चनाकल्पः.pdf/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल:24 दव्यंशंपादं सर्धांर्शंशिखरं कारयेत्, अत्रानुक्तं सर्व रंगडोलादीनि च शिल्पिशास्त्रोक्तविधिना कारयेत् ॥

                   खट्वा 
  खट्वाविस्तारं दन्तै र्दारुसारैर्वा चतुर्विंशतिविंशति षोडशद्वादशाऽङ्गुलम्, अर्धाधिकपादोनद्विगुणं, द्विगुणं वा, आयामविस्तारार्धपादोत्सेधं, तत्समंनाहं     चतुर्भि: षड़्भि: अष्टाभिर्वा पादैयुक्त,सिंहव्यालगजाकारैर्युक्तम् ईलिकाविस्तारंरसाऽङ्गुलं तदर्धबहलं, तत्तारंत्रेधाकृत्वा मध्ये पट्टिकां, तद्वाह्मोकपोताकृति कारयेत्, ऊर्ध्वतांऽधस्ताच्च गुलिकाद्यैरुपशोभितभित्तिकम्, अभ्यंतरेचाऽऽधारमाय संसुषिकानाराचं संयोजयेत् त्र्यंगुलविस्तारां यथार्हायामां कक्ष्यां कार्षासतन्तुनाकृत्वा खट्वामावेष्टयेत् । खट्वायामतिस्तारसमं, इताष्ऽशाधष्डंगुलोत्सेधम्, अण्डजाद्यै: क्षौमाद्यैर्वा संपूर्णं वा कारयेत् ॥ 
                      उपधानम्
उपधानं त्रिंशदङ्गुलाविष्कंभं त्रिगुणपरिणाहं, यथोचितायामं, पादो    पधानं हस्तोपधानं युक्त्या कृत्वा युगपादं द्वादशद्वयांगुलोत्सेधम्, अष्टां ऽगुलविष्कंभं,पालिकाकारवत्कृत्वा संयोजयेत् ॥    
 
                   पुष्पफलकम्
पुष्पपलकां खदिराऽर्जुनमधूकाद्यैश्शुमवृक्षैः अष्टषट्चतुस्तालविस्ताराम् अष्टषट्चतुर्हस्तायतां चतुरस्त्रिद्विमात्राबाहल्यां कृत्वा युगपादंद्वादशांऽगुलोत्सेघंअष्टांगुलविष्कंभं पालिकावत् कृत्वा संयोजयेत् ॥ बिष्टरंचतुर्वित्यगुलायामवस्तरं समचतुरश्रं वृत्त वा वेदांऽगुलंबाहल्यम्, मुष्टिषडंगुलायामं, सप्तांऽगुलपरिणाहं, शेषं युक्त्या कारयेत् ॥ 
  
                    विष्टरम्
विष्टरं चतुर्विशत्यङूलायामविस्तारं समचतुरश्रं वृत्तं वा वेदाङ्गुलबाहुल्यं मुष्टिं षडङ्गुलायामं सप्यताङ्गुलपरीणाहं शेषं युक्तया कारयेत्। 


                  आसनविष्टरम्
आसनविष्टं शष्याविष्टरवत पादहीनं समं वा कारयेत् ॥