पृष्ठम्:विमानार्चनाकल्पः.pdf/151

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



                   पटत्न:24
                  
                  स्तम्भवेष्टनम्
स्तंभवेष्टनं तत् स्तंभायामसमं, तदर्धविस्तारं क्षौमाद्यैःकारयेत् ॥
                   वितानम्
वितानं तत्पंङ्क्त्या यामविस्तारसमं, नानारूपान्वितं वो कारयेत् ॥
                  ध्वजः
ध्वजं त्रिपञ्चसप्ताष्टदसशद्वादाशकरायतं, षट्पञ्चचतुस्त्रितलविस्तारं, श्वेतपीतश्व्  श्वेतपीतभ्यामरक्ताभं; हस्तमात्रायामंशिखरं, हस्तायामैर्द्वित्रिपास्संयुकं, तिर्यग्वेत्रद्वययुतं, घण्टासहितं, तद्विगुणायतयष्टिसंयुक्तं कारयेत् ॥ 
                 पताका

पताकां तथैव विंशत्यंगुलविस्तारां, त्रिंशदंगुलायतां क्षुद्रध्वजंपञ्चांगुलविस्तारं, द्वादशांगुलायतवेत्रद्वययुतम्, अन्यत्पूर्ववत्, शिखरेरज्जुयुक्तंकारयेत् ॥

                 यवनिका                        
  यवनिकां द्वारविस्तारसमविस्तारां, तदध्यर्धायामां, श्वेतवस्त्रेण कारयेत्
                   छत्रम् 

छत्रं चतुस्तालं, समवृत्तमधोमुखं, वैणवेन तनतुना बन्धनं कृत्वा वस्त्रेणाऽऽच्छाद्य कल्कंप्रलिप्य मुक्तादामयुतं, सरत्नहेमसंछन्नं, हेममकुटोपेतमुत्तमं, वस्त्रेणाऽऽच्छाद्यधवलं कृत्वा ताम्रपित्तलमकुटोपेतं मध्यमं; दारुमकुटोपेतमधमं, यथार्हंनालंदंडं च कारयेत् ॥

                   पिञ्छम्
पिञ्छं चतुस्तालविस्तारायामं, सुवृत्तं, किंचिदूर्ध्वमुखं, छत्रद्वस्रेणाऽऽछाद्य मयूरपिंछैर्बाहामभ्यंतरं तत्समचाऽऽच्छाद्य पूर्ववन्मकुटनालदण्डं च कारयेत्॥
                 
                   जिनछत्रम् 
  जिनच्छत्रं षट्तालविस्तारं, समवृत्तम्, अधोमुखं वैणवेनतन्तुना संक्षे