पृष्ठम्:विमानार्चनाकल्पः.pdf/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्पे महाशास्त्रे


धुचूरपुष्पोपमम् आस्य तारंत्र्यंगुल्मं, चतुरंगुलं वा गार्त्तचतुरंगुलं यवमात्रघनम्, अधस्ताहारुणामुष्टिचमं, यमद्वयं वा संयोज्य एवंह स्तदीपं कारयेत् ॥

                    नीराजनपात्रम् 
    अथ नीराजनपात्रं हेमरजततांम्रकांस्यानामन्यतमेन चतुर्विशातिषोडशांऽगुलविस्तारं, समवृत्तम्, अर्धाऽगुलभित्युच्चं, तत्समसीमाविस्तारं, पात्रमध्ये त्रिभागैकभागेनाऽब्जदलयुतम्, एहकांऽगुलोन्नतं तत्कर्णिकामध्ये त्र्यंगुलोत्सेधम्, एकांऽगुलंपरिणाहं, मध्या (ध्यमा) दिनवदिक्षु दोपाधारयुत्त्कं, मध्येमध्ये यमम् एवसंयोज्य तत्पृष्ठे षट्चतुरंगुला ऽऽयतविस्तारंपादं योजयेत् ॥
                    
                      दर्पणम्
      दर्पणं शुद्वेनकांस्येन नवैकादशांऽगुलविस्तारायामं, पूर्णचन्द्राकारं, नालमष्टांगुलंवा, नानापहिकासहितंकारयेत् ।
                       
                     पादुका    
    पादुकां सुवर्णरजतताम्राणामन्यतमेन त्रिमात्रादि ससमात्रान्तम, अर्धाऽगुल्वृध्द्या त्रित्रिभेदं पादुकायामं, तदर्धमग्रविपुलं, तन्मध्यंतत्पादहीनं, तदुत्सेधम्, आयामतुरीयांशं, तञ्तिभागद्विभागंखुरं, शेषमूर्ध्वदलम्,अङ्गष्ठोच्चं, तलोच्चं,चतुर्भागं, तच्छरांशयुगांशनालं, शेषंपुष्पम्, अंगुष्ठोच्चसमं, पुष्पविस्तारं, शेषंयुक्त्यैव कारयेत् ॥
                    
                     जलद्रोणी          

जलद्रोणीं सौवणीं राजतीं ताम्रमयीं वा भारजलै द्विभारजलैः त्रिभारजलै र्वा संपूर्णां सुद्दढां, निर्विवरां सुवृत्तां, चतुरश्रां वा, ग्रीवाहीनां, पार्श्वयोर्वलयसंयुक्तांमृण्मयींवल्यविहीनां सुग्रीवां,शेषंयूक्त्यैव कारयेत् ॥

                     तरङ्गम्

तरङ्गं क्षौमपद्ददुकूलपतकार्पासै र्वा द्वादशहस्तयतैः पञ्चभिः द्वादशमिः नवभिर्वा नवऽम्बरैर्युक्तम् आस्य रज्वासमयुक्तं नानारूपन्वितं श्वेतं वा कारयेत् ॥