पृष्ठम्:विमानार्चनाकल्पः.pdf/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 विमानार्चनाकल्पे महाशास्त्रे मधुच्छिष्ट क्रिया संस्कारः प्य् चुल्यामारोप्य प्राङ्मुखेनशिल्पिना समेनाग्नेिनापाचयित्वा नववस्त्रेणोत्पूय तत्सिक्थमादाय प्रोक्ष्याचार्यः प्राङ्मुखो भूत्वा ‘इदं विष्णु' रिति मन्त्रेणाऽभिमृश्य उत्तमाङ्गं कृत्वा आचार्यों यजमानव शिल्पिना शनैशनै: मृब्रेदंकारयित्वा विम्बशुद्धि च कुरियेत् । तत्बिम्ब स्रावित मपूर्णं खण्डितं स्फुटितं यदि भवेत् तद्वेरं लोहवत् स्मृत्वा पूर्ववद्धोमं हुत्वा बिम्बमाहरेत् ॥ अथ विमानबेरादि मानविभागार्थमंगुलानां संज्ञां वक्ष्ये - मानांगुल, मात्रांगुलं देहलब्धांगुलमिति त्रिविधं भवति । दिने आदित्यरश्मौ जालकान्तः प्रविष्टे तद्रीचरा अत्यं । लवाञ्जूणवु प्रॊक्ताः, त एव परमाणवः, पूरमाणुर्भैिरष्टाभिरधरेणुः, अधरेण्वष्टगुणितं रोमाग्रं, रोमाग्राऽथ्गुणता दक्षिणहस्तस्यमध्यमांगुलेर्मध्यमपर्वणोर्विस्तारायामं वा मात्रांगुलं, बेरोत्सेधं तत्तालवशेनविभज्यैकांऽशं देहलब्धांऽगुलं, तदष्टांऽशं यवमिति । · ·