पृष्ठम्:विमानार्चनाकल्पः.pdf/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्पे महाशास्त्रे भोऽपरोऽशुभः उत्सेधे नवगुणिते मुनिभिर्हृते शिष्टंवारम्, उत्सेधे चतुर्भिर्गुणिते नवभिर्हृते शिष्टमंशकम्, तस्करभुक्तिशक्तिविक्ताऽवनीपालक्लीब निर्भीतिदरिद्रप्रेष्या नवांऽशकाः ॥ भवति । तस्माच्छुभाधिकमशुभहीनं बेरमाहरेत् ॥ 94. पूर्वः यजमानस्याऽर्थहार्नि, राज्ञः शत्रुवृद्धिं च, कुर्यात् । अायाधिकं व्ययक्षीणंसर्वसंपत्करं भवति नक्षत्रं यजमान नक्षत्रादि बेर नक्षत्रान्तं बेर नक्षत्रादियजमान नक्षत्रान्तं वा गणयेत् तृतीय पश्चमसममानिहित्वा अन्यानिशुभानि भवन्ति। वृषोऽर्थलाभं, गर्दभोबन्धुवियोगं, गजस्सर्वसिद्धिं, वायसोऽपत्यहार्निकुर्यात् । वारेषु आदित्यांगारक शनैश्वरान् हित्वा अन्ये शुभा भवन्ति । अशुभाश्व योगबलयुताश्चे न्मुख्या भवन्ति । अंशकेषु तस्करं षण्ड दरिद्र प्रेष्यं च त्यक्त्वान्येशुभावहा भवन्ति ॥ मानाधिकन्यूने फलम् मधिकं वा ग्रामविनाशनम उपमानविहीनम् अधिर्कवा नृपनाशनं स्यात्॥ तेजआदीनांहीने फलम ' तेजो हीनं चक्षुः प्रीतिहानिं, कृशाऽङ्गस्थूलाऽङ्गः, तिर्यग्गतम्, ऊर्ध्वाननं, कुञ्चितंच राजग्रामविनाशनंस्यात्। RUS, धनधान्यविनाशः, अम्बरे विरुद्धे लक्षणहीने च दारिद्यं; लक्षणहीनेषु चोरशत्रुवृद्धि; पीठे लक्षणहीने स्थान नाशो, धनक्षयश्व; प्रभामण्डले लक्षणहीने कीर्तिदीप्तिविनाशश्च भवति ॥