पृष्ठम्:विमानार्चनाकल्पः.pdf/129

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटल​: 22 93

          कौतुकोत्सवयोः  स्थिति विशेष                                                                                         
ध्रुबेस्थिते स्थितम् आसीने चासीनं, स्थितं वा, शयने   कौतुकमासीनं स्थितं वा , ध्रुवे स्थितेप्यासीनं  कौतुकमौत्सवं चेति केचित्। यानके यानकं, स्नापनं सर्वत्र स्थितमेव कुर्यात् ॥
                                                    कौतुकस्य रूपविशेषः
प्रादुर्भावानां कौतुकं तृप्तद्रूपं, विष्णूंचतुर्भुजं वा, मत्स्य कूर्म व​राह वामनानां तत्तद्रूपं नैव कुर्यात् ॥
                                                 देवदेवीप्रभा पीठानां द्रव्यैक्यम्  
येन द्रव्येण देवो निर्मितस्तेन द्रव्येण देव्यौ, प्रभां, पीठं च कारयेत् । अन्यथा महत्तरो दोषो भवेत् ॥
                                            कौतुकोत्सवयोर्देवीयोगे फलविशेषः

ध्रवे देवीवियुक्तेपि कौतुकं देवीयुक्तं सर्वसमुध्दिद कौतुकेदेवि वियुक्तेप्यौत्सवं देवीसहितमुत्तममित्यन्ये वदन्ति ॥

  ध्रुवबेरस्योत्सोधं त्रिधाक्रुत्वा एकांशमुत्तमम्,द्विभगं त्रिधाक्रुत्वा

एकांशं मध्यमम्, तद्द्विभागं त्रिधाकृत्वा एकांशमधमम् , ध्रुवबेरंदशांशं क्रुत्वा एकांशंतालां,तत्तालं द्वदशभागंक्रुत्वा एकांशमङ्गलं तदङ्ग्लेनैकाद शाऽङ्ग्लं समारभ्य ञ्यङ्गुलाधिक षष्टचङ्गुलवृध्धा सप्तविंशति तुङ्गानि कौतुकादीनि,तद्विमाननिर्देशहस्ताङ्गुलेन सप्ताङ्गुलं समारभ्य त्रयोविशंत्यङ्गुलान्तं तद्दव्याङ्गुलवृद्द्या नवधा भवति,एतेष्विष्टनानं विनिश्र्वित्यु एकद्वित्रिचतुर्धवहीनाधिकथं समंतान्नयेत् तन्नदोषायभवति।तस्मात् कौतुकस्नपनोत्सव बलिबेराणि तत्तद्यो(गे) ग्येनैव कारयेत् ॥

                                         आयव्ययनक्शव्रयोनिवारांशानयनम्
पश्र्वादायव्यय न्कशत्रयोनिवारांऽशकैष्षदड्भि शुभाशुभं परीक्शेत​।तदुस्सेधं त्रिगुणीक्रुत्य वसुभिर्हरत्,तछ्छेषमाद्यम्,उत्सेधं चतुर्गुणीक्रुत्य पञ्चभिर्हरत्,तछ्छेषंव्ययम्,उत्सेधे वसुभिर्गुणिते सप्तविंशतिभाजिते शिष्टं

च नक्षत्रम्, तुरगाद्यं यजमानानुकूलर्क्षमाहरेत्, उत्सेधं त्रिगुणीक्रुत्य​ वसुभिहरत्, ध्वज धूम सिंहश्ववृष गर्दभगजवायसा एतेष्टवोनयः ​