पृष्ठम्:विमानार्चनाकल्पः.pdf/13

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

संज्ञाविशेष नियमेन समर्चयन्तः प्रीत्यानयन्तिफलवान्ति दिनानि धन्याः । वर्णाश्रमादिनियमास्थिरसूत्रबद्धा भक्त्या निवेशित यथार्ह सुपत्रपुष्पा । मालेवकालविहिता हृदयंगमा त्वां आमोदयत्यनुपरागाधियां सपर्या। तथा वैखानसगृह्योच दशम प्रश्ने "मधूक्ते तोयम्, मांसोक्ते पैष्टिकं ग्रुहाति" इत्युक्तेः शुद्धस्सात्विकत्वमेव वैखानसानां सिद्धम् ॥ अच्छिद्र् पंचकालपरायणात्वादिकोधर्मः वैरवानसानामेव स्वभावत स्सिद्धः परैरप्याकृष्य आत्मनिवर्णित इति शांडिल्यस्मृत्यादिदिशा विग्नातं सुविदितामिति,तावदास्तां प्रपंचः ।

दक्षिणापथे केनचिदाधुनिकेन वैखानसानामपि अद्वैतित्वमुत्प्रेक्षितं। साचोत्प्रेक्षा वैरवानससिद्धांते तस्यसर्वथापरिचयाभावं व्यनक्ति । आग्रहविधुरै रस्मिन्नेव प्रयत्नेन महर्षिणा मरीचिनाकृते विमानार्चनकल्पे त्रिणवतितमे चतुर्नवतितमेच पटले वैरवानस गृह्यसूत्रघटकयोः सगुणनिर्गुणशब्दयोः निरूपितं प्रामाणिकमर्थमादाय मायावादिसम्मतार्थत्वा भावोद्रष्टव्य: । ततश्च वैरवानसाः जीवेश्वरयो र्निरुपचरित भेदवादिनइति निश्चेतुंशक्यते ॥ एतावताग्रंथेन वैरवानसागमस्य श्रुतिपथैकवर्तित्वं बहुभिःप्रमाणैः सज्जनमुदे सूचितं । कालत स्साहचर्यदोषाच्च ये दोषा स्तदनुयायिष्वपि दत्तपदास्सयुः तान् व्युदस्य मूलग्रंथावलोकनपरा महान्तः स्वतः वेदोक्तधर्मानुष्ठानेन तत्रच उपासनावर्त्मनि विद्वदविद्वत्साधारिणीं आध्यभूतां अर्चासमर्चनपद्धतिं अवच्छिन्नसंप्रदायेन प्रदर्शयतां वैरवानसानां वैदिकाग्रगण्यत्वं अवधारयेयुरिति, तथा तत्सिध्दांतेनैव शेषाद्रौ श्रीनिकेतनस्य अनन्यसाधारणः पूजाविधिः अनादितश्चलतीति, अयंच कोशः तमेवार्थं विद्वद्भयोऽविद्वद्भयो दर्शयतीतिच विमृश्य एतत्प्रकाशने कृतो साहानां श्रीमतां महंतवर्याणां तन्नियोगेन एतत्परिष्करणे कृतश्रमाणां विदुषांच मुदमेवअर्हणीं मन्यमानाः मोदेरन्नितिशम् ॥ वः · रधुनाथचक्रर्वार्त भट्टाचार्यॅ: सेतु माधवाचार्यैः