पृष्ठम्:विमानार्चनाकल्पः.pdf/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 विमानार्चनाकल्पे महाशास्त्रे

                     घोषरवं वायुवाहनं पक्शध्वजं शिरसिशरं माघमासे वारुणेजातं शराद्य​
                    क्षरबीजं शारं 'शारं महारवं अमोघं तीक्ष्णधार' मिति  ॥
                                                           
                                                          
                                                  शार्ङग्स्य
       
                        वामे शाङ्गं पूर्ववत् ॥
                                                सुग्रीवस्य
                                                
दक्षिणे सुग्रीवः श्वेताभो रक्तांबरधरो रक्तवसनो द्विभुजः प्रांजलिः
पादावनतयुक्तो मृगध्वजवाहनो वैशाखे आश्लेषाजो मेघनादरव: सुराद्यक्षर-

बीजः तारेशः 'सुग्रीवं सुन्दरं महाबल मर्कसूनु' मिति ॥

                                              विभीषणास्य​

वामे कृष्णवर्णो रक्तांबरधरो रक्तकेश स्सुदंष्ट्रो द्विभुजः शूलधरो हृदये अञ्जलिसंयुक्तो मूलजो मेघध्वजवाहनो मेघनादरवो विशुद्धेशो बिद्यद्य

क्षरबीजो विभीषणो  'विभीषणं  राक्षसाधिपं सुमनस्कंरामप्रिय' मिति ॥
                                              अङ्गदस्य

अभिमुखे श्वेताभोरक्तांबरधरो रंक्तवदनो द्विभुजः प्रांजलिः पादा वनतस्थितः सिंहध्वजवाहनः सिंहरवो बौशाखे रोहिणीजोऽङ्गदः 'अङ्गदं

वालिपुत्रं  रामप्रियं देवभक्त' मित्यर्चयेत् ॥ .
                                       बलभद्रस्य

वायव्ये बलभद्ररामः श्वेताभः नीलवस्त्रधरो द्विभुजोदक्षिणहस्ते नाऽवलम्बितमुसलो वामेनहलधरः त्रिभंगस्थित उद्बद्धकुंतलः अन्यत्सर्वम्

अादिमूर्तेरिव ‘रामं यदुवरं, विष्णुं, हलायुध’ मिति ॥
                                 कृष्णस्य

ऐशान्यां कृष्णः पश्चिमाभिमुखो, दक्षिणाभिमुखो वा, श्यामाभो रक्तांबरधर स्सर्वाभरणभूषितः सौन्दर्ययुक्तः कुन्तलयुक्तः बर्हिबन्धयुतः

त्रिनतो द्विभुजो दक्षिणहस्तेन क्रीडायष्टिधरो  वामकूप्र्परिण सत्यभामा

ङ्गरूढंवाऽऽलंब्य सुस्थितः क्रीडारससमाविष्टो रुक्मिणीसत्यभामयोरीशः