पृष्ठम्:विमानार्चनाकल्पः.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटलः21 91

   श्रावणे मासि रोहिणीजातोऽन्यत्सर्वम् अादिमूर्तेरिव ‘कृष्णं, पुण्यनारायणं,
       व​टपत्रशायिनं , त्रिदशाधिप' मिति ॥
                                                   रूक्मिण्याः

दक्शिणोरुन्माभा शुल्कांम्बरधरा धम्मिल्लकुन्तला,उद्वद्धकुन्त​,लावा नामाद्यक्शरबिजा अन्यत्सर्वश्रीरिव रुक्मणीं,सुन्दरीं,प्रक्रुतिं (पवित्रीं) कृष्णवल्लभा’ मिति ॥

                                              सत्यभामायाः
वामे सत्यभामा धम्मिलूकुन्तला उद्धद्धकुन्तला वा, नामाद्यक्षरबीजा
अन्यत्सर्वं महीवत् सत्यभामा ‘सत्यभामां, सतीं, सन्नतीं, क्षमा' मिति ॥
                                           गोपीनाथस्य​
। दक्षिणे रक्ताभः  श्वेतांबरधरो वंशहस्तो माघमासि वारुणे जातो
हयध्वजवाहनो हंसरवो गोपीनाथो गवाद्यक्षरबीजो गोपालो 'गोपालं,
सर्वनाथं, कृष्णं, सर्वाध्यक्ष' मिति ॥
                                        श्रिदामः 

वामे श्रीदामा श्यामाभः श्वेतांबरधरः द्विभुजः अंजलिसंयुक्तः

प्रोष्टपदेपूर्वाषाढाजो नामाद्यक्षरबीजः अश्वध्वजवाहनो वेणुरवो गोपीनाथ:
'श्रीदामानं, पुण्यरूपं, पुण्यात्मकं, देवसख' मिति ॥
                                       सुन्दरस्य​

प्रमुखे गरुडांश स्सुन्दरो विहगाद्यक्षरबीजोऽन्यत्सर्व गरुडवत् ' सुन्दरं , विहंगं ,पतङ्गं , ताक्ष्रर्य​' मिति समर्चयेत् ॥

                                    कल्किनः 

पश्चिमे चोत्तरभागे कर्की हयाननः अन्यत्सर्वमादिमूर्त्तेरिव समाचरेत् ॥

                                   कौतुकस्य​

अभिमुखे कौतुकं चतुर्भुजं संस्थाप्यार्चयेत् ॥