पृष्ठम्:विमानार्चनाकल्पः.pdf/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः21 89

                                                                                                                                                                                                                       सीतायाः
                                                                                                                                                  
    तद्दक्षिणे सीता हेमाभा शुक्लांबरधरा धृतपद्मवामहस्ता प्रसारित दक्षिणकरा सुस्थितदक्षिणपादा आकुञ्चितपादा उद्वद्धकुन्तळा करंडकामकुटियुतावा नामाद्यक्षरबीजा अन्यत्सर्व श्रीवत्,'सीतामयोनिजां लक्शमीं  वैदेही' मिति ॥
                                                         सौमित्रेः 
   वामे सौमित्रिः कनकाभः श्यामांबरधरो द्विभुजो रामवत् त्रिभङ्गस्थित श्र्चापधर उद्व​द्धकुंतलो  वैशाखेरेहिणीजातो लक्षाद्यक्षरबीजोऽन्यत्सर्व रामवत्, ‘रामानुजं सौमित्रिं लक्ष्मणं लक्ष्मीवर्धन' मिति ॥
                                                       भरतस्य 
दक्षिणभागे भरतः श्यामाभो रक्तांबरधर उद्बद्धकुंतलः शरचापौ, खड्गखेटकौवा, दधानो द्विभुज: त्रिभङ्गस्थ   श्र्चैत्रे स्वात्युद्भवोऽमलेशो  भगाद्यक्शरबीजो श्रीवत्स​ कौस्तुभौ विना अन्यत्सर्व रामवत् 'भरतं कैकेयं  

रामानुजं धर्मचारिण' मिति ॥

                                                      शत्रुघ्नस्य​
   वामे शत्रुघ्ननो हेमाभो रक्तांबरधर: उद्व​द्धकुंतलो ज्येष्ठमासे धनिष्टा जातो नामाद्यक्षरबीजो निर्मलेशः अन्यत्सर्वं लक्ष्मणवत्, ‘रामप्रियं शत्रुघ्रं विजयं भरतानुज' मिति ॥
      दक्षिणे पुरतोऽञ्जनाभः श्वेतवस्त्रधरः कपिरूपः सर्वाभरणभूषितः द्विभुजः दक्शिणहस्तेनाऽऽरञ्चंपिधाय वामहस्तेन वस्त्रंपिधाय अवनत​गात्रस्थितो वार्ताविज्ञापनपरो मृगवाहनो दण्डध्वजो महानादरवः श्रवणे 

मासि श्रवणजातः कल्पाद्यक्शरबीजो हनुमान् 'कपिराजं हनुमन्तं शब्दराशिं महामति’ मिति ॥

                                                   शरस्य​ 

दक्षिणे शरं नपुंसकं श्र्यामाभं श्वेतांबरधरं त्रिणे(ने) त्रं रौद्रं समुद्र