पृष्ठम्:विमानार्चनाकल्पः.pdf/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 विमानाचनाकल्पेे महाशास्त्रे तद्दक्षिणे कूर्मरूपं श्वेताभं पञ्चवर्णयुतं संकल्प्याऽभिमुखे कौतुकं चतुर्भुजं सन्यस्य 'कूर्मरूपं सुधाकारं महाशक्तिं महाबल' मिति ॥ मत्स्यकूर्मयोर्वाहन केत्वादीन् आदिमूर्त्तेरिव समाचरेत्।। वराहस्य दक्शिणे वरााहं पूर्ववत्साकल्पयाभिमुखेे कौतुकंं चतुर्भुजं विष्णुरूपं समर्चयेत् ॥ A नृसिंहस्य पश्चिमे नृसिंह: प्राङ्ममुखः सिंहासनोपरि द्वौपादौ व्यत्यस्य उत्कुटिकमासीनो बद्धयोगपटिट्का श्र्वतुर्भुजः शङ्खचक्रधरो जानूपरि प्रसारितहस्तः भवेदेषविशेषः अन्यत्सर्वं पूर्ववत् कौतुकं तद्रूपं, चतुर्भुजं विष्णुरूपंवा, संकल्ष्याऽचयेत् ॥ वामनस्य उत्तरे वामनं पूर्ववत् संकल्प्य कौतुकं चतुर्भुजमेव कृत्वार्चयेत् ॥ परशुरामस्य आग्नेयां परशुराम: पश्चिमाभिमुख: उत्तराभिमुखो वा रक्ताभः श्र्वेतांबरधरो दक्षिणकरेण परशुधरः उद्देश्यवामकरो जटामकुटयुतः सोपवीतः कमलेशः, अन्यत्सर्व मादिमूर्तिरिव 'राममृषिसुतं विष्णुं परशुपाणि' मिति ॥

तद्देव्याः कमलायाः तद्दक्षिणे कमलांसीतावत्कारयेत् ॥

राघवस्य नैर्ॠत्त्यां राघव उत्तराभिमुखः, प्राङ्ममुखो वा, श्यामाभो रक्तांंबरधरो मकुटादि सर्वाभरणयुक्तः श्रीवत्सवक्षाः द्विभुजो दक्षिणकरेण शरधरो कामकरेण घनुरालंब्य त्रिमङ्गयास्थितो माघमासे पुनर्वसुजातः सीतानथो ऽन्यत्सर्वं आदिमूर्तेरिव 'रामं दाशरथिं वीरं काकुत्स्थ’ मिति ॥