पृष्ठम्:विमानार्चनाकल्पः.pdf/123

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 21 87 सरित्पतिमसुरं शोषणं रोगं विध्याम् वशसं भद्रां च; उक्तरपश्र्विमभागे जवनं नागं मुख्यं भल्लाटं वेदभृतं ताघसं संधुषं च; तत्पूर्वभागे सोमम् अर्गलम् अधितीं सूरिदेवं विध्याम् अमितं पांचभौतिकम् एतान् देवाान् एकमूत् र्या अर्चयेत्॥ प्राकारभााहे महत्पीठं कृत्वा अत्रानुक्तदेवान् सर्वान् 'देवा'

निति समर्च येत् । एषां उक्तूनिवर्णवाहनादीनि ज्जात्वा अर्चयेत् । अनुक्तास्सर्वेष्याकाशवर्णाः श्वेतांबरधराः पुष्पहस्ताः द्विभुजाः खगध्वजवाहनाः शंखरवाः तत्तन्नाम्ना (मानः) प्रियायुक्ता नामाद्यक्षरबीजा अभिजिज्जाताश्च एवंज्ञात्वाऽर्चयेत्। एवमेवंप्रकारेण परिवारैर्युक्तं उत्तमोत्तमं । सर्वसंपत्करं चक्षुर्मनसोः प्रीतिकरं देवप्रियकरं च, भवेत्। तस्मात्सर्वप्रयत्नेन एतैः प्रकारैः परिवारैर्युक्त मालायार्चन माचरेत्॥ सर्वप्राकरणभाव॓ प्रथमावरणे वचत्प्रकारश्रित देवानर्चयेत्। परिवारणामभवेपि दवि्तीयाचरणादिष्वावरणे तक्तसूत्रे तक्तदावरणस्थान् देवानं संयोज्याऽर्चयेदिति केचित्। अथवा विभवानुसारेण नवविधपरिवारोत्तमार्गेणपरिवारार्चन माचरेदित्याह मरीचिः ॥इति श्रीवैखानसे मरीचिप्रोक्ते महाशास्त्रे विमानार्चनाकल्पे देवदेव्यादीना मप्यालयांतर्गतानां वर्णवाहन केतुध्वजरबक्ष प्रियाऽयुधादिवर्णनं नाम विंशः पटलः ॥२०॥ अथैकविंशः पटल: अथ प्रादुर्भावाऽऽविर्भावानां वर्णवाहनादि व्याख्यास्याम:- मत्स्य कूर्म वराह नारसिंह्म वामन रामरामराम कृष्ण कल्किन इति दशप्रादुर्भावान् प्रथमावरणे, द्वितीये वा, पृथक् पृथक् भित्ति पाश्र्र्वे, प्रसादाभिमुखं चित्रं चित्रार्ध, माभासं वा, संकल्प्याऽभिमुखे तत्तत्कौतुकं च संन्यस्याऽर्चयेत् ॥मत्स्यस्य चतुर्नामादि पूर्वदवा्रोक्तरे मत्स्यरूपं श्र्वेताभं रक्तास्यं रक्तनेत्रं कृष्णापक्शयुतं संकल्प्य अभिमुखे कौतुकं चतुर्भुजं संन्यस्य 'मत्स्य प्रठयसंहारं स्त्र​ष्टारं वेदमय'मिति॥