पृष्ठम्:विमानार्चनाकल्पः.pdf/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86 विमानार्चनाकल्पे महाशास्त्रे कामिन्याः तदुत्तरे रक्ताभा श्वेतांबरधरा च अन्यत्सर्वं व्याजिनीवत् कामिनी 'कामिनीं कान्तां शुभांगीं विमला' मिति ॥ चन्द्राभा: उत्तरे दक्षिणामुखा श्वेताभा कृष्णांबरधरा पुष्पहस्ता द्विभुजा ललाटोपरिपुष्पचूडासमन्विता खगध्वजवाहना हंसरवा हस्तजा नामाद्यक्षरबीजा चंद्राभा 'चंद्राभां तन्वंगीं श्वेतरूपां दृढव्रता' मिति ॥ सुन्दरस्थ तत्पूर्वे दक्शिणाभिमुखः श्यामाभो रक्ताम्बरधरो दिव्भुजः पझहस्तः सर्वाभरणभूषितो गजवाहनः खगध्वजः सुनन्दापति नामाध्यक्शरबीजः शतभिषग्जात स्सुन्दरः 'सुन्दरं सुरप्रियं शुभानन्दं सौम्य'मिति॥ सषमावरण पूर्वोतान्ताराले स्वधासंहादिनोर्मध्ये मायामयूरध्वजवाहिनी मधूरस्वररवा सौम्यजाता नामाध्यक्शरबीजा "मायां मातङ्गीं वराहीं वरानना" मित्यधवा संहृादिनीवन्मायासंहादिन्योरभेद इति वदन्ति । ब्रहादिपददेवतानां स्थानम् सप्तमावरणे पूर्वदव्ारे ब्रहाणं, तदद्क्शिणऽर्यम्णं पश्र्विमाभिमुखी दक्शिणे दण्डधरमुक्तराभिमुखं, पश्र्विमे पाशभृतंप्राङ् मुखम् उक्तरे धनदं दक्शिणाभि- मुखम; आग्नेघ्यां सवितारं सावित्रंनैऋत्याम, इद्रं इंद्राजं वायव्यां, रुद्रंस्द्राजं ऐशान्याम्, आप आपवत्सं च अर्चयेत् ॥ अन्तराले प्राच्यामुक्तरपाश्र्र्वेचईशं पर्जन्यम् जयन्तं माहेन्द्रम् नागं भूतं यक्षं च; तद्दक्षिणे पार्श्वे च आदित्यं सत्यकं भृश मन्तरिक्ष दुर्गा घोटमुखीं धत्रीं वपुषं च; तदक्शिणे पूर्वभागे अग्निं वितथं गृहक्षतं राक्षसं जयं कृष्णं च; तत्पश्चिमभागे यमं गन्धर्वं भृङ्गराजं सुरुण्डं शिवं प्राणं च, पश्चिमे दक्षिणभागे निर्ऋतिंं दौवारिकं पुष्पदन्तं कविंं चक्रं पुरुहूतं च; तदुत्तरभागे