पृष्ठम्:विमानार्चनाकल्पः.pdf/120

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 विमानार्चनाकल्पे महाशास्त्रे

षष्ठावरणे तुम्बुरोः षष्ठावरणे पूर्वद्वारोत्तरे रक्ताभः श्वेतांबरधरो जटाधरो द्विभुजो वीणाहस्तो गानरवः संगीतापतिः वायुवाहनः स्त्रवध्वजः नामाद्यरबीज स्तुंबुरु: 'तुंबुरुं मुनिवरं स्वरेशं वेदरूपिण' मिति ॥

नारदस्य दक्षिणे पश्चिमाभिमुखः श्वेताभो रक्तांबरधरो द्विभुजो वीणाहस्तः ताळरवः स्वरेशो वायुवाहन: कूर्ण्चध्वजोऽभिजिज्जातो नामाद्यक्षरबीजो नारदो ‘नारदंमुनिवरं गानरूपं ब्रह्मसंभव' मिति ॥ ऋतूनाम् दक्षिणे च उत्तराभिमुखाः अब्जाभाः श्वेतवस्त्रधराः पुष्पहस्ताः द्विभुजाः पुष्परथवाहनाः विध्युत्ध्वजाः मेघरवाः श्वेतकृष्णापतयः मूलोद्भवाः गकारबीजाः षडृतवः ‘ऋतून् भराशीन् गन्धर्वान् तीर्था' निति ॥ प्रजापते: पश्चिमे प्राङ् मुखः श्वेताभः एकवस्त्रः एषविशेषः अन्यत्सर्वं विरिञ्चिवत् प्रजापतिः 'प्रजापतिं स्त्रष्टारं वेदमयं ब्रह्मरूपिण’ मिति ॥ मुद्रलस्य । उत्तरे दक्षिणाभिमुखः श्वेताभो रक्तांबरधरो जटाधरः कूर्मवाहनः कुशध्वजो वेदरवः सुरगणेशा नामाद्यक्षरबीजः श्रवणजो मुद्भलो 'मुद्गलं मुनिवरं शुद्धं सर्वज्ञ' मिति ॥ हृलेशस्य आग्नेय्यां श्वेताभो नीलांबरधरो द्विभुजो हलधरः पद्मवाहनः पद्मकेतुः नामाध्यक्शरबीजो यामापतिर्मेत्रजो हंसरवो हलेशो 'हलेशं महाबलंं मायागं वरदायिन' मिति॥

जाम्बवस्य नैऋत्यांं श्यामाभो रक्तांबरधरो बालमौठिसमायुक्तुः छत्रवीरसमायुक्तो