पृष्ठम्:विमानार्चनाकल्पः.pdf/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गन्धर्वाणाम् दक्षिणे च उत्तराभिमुखाः पद्मकिंजल्कसन्निभाः द्विभुजाः पाशहस्ताः सिह्मनादरवाः गजवाहनकेतुका स्म्याद्याक्षरबीजा रक्ता स्सक्ता स्सौम्यजाता गन्धर्वाः 'गंधर्वान् रम्यान् सुरजान् सोमजा' निति|| मुनीनाम् तत्पाश्व्मे च उतराभिमुखाः कनकाभा जटामकुटधराः कुशांबरधराः कृश अनूराधाजा जलघोषरवाः तपोधिपाः तपाघक्सरबिजा मुनयो'मुनीन् तपोधिपान् कृशान् पापविनाशना' निती|| अप्सरसाम् तत्पाश्व्मे प्राङ्ममुखा हेमाभाः पुष्पाम्बरधराः पझ्हस्ताः द्विभुजाः कृष्णाजिनधराः शूकस्वररवाः हंसध्वजवा नाः अमृताघक्षरबीजाह उत्तरजाः अप्सरसः 'अप्सरसः अमृतजाः भोगवहाः स्वरजा’ इति ॥ अश्विनोः तदुतरे प्राङ्ममुखो गोक्षीराभावशोकपुष्पवस्त्री द्विभुजौ मयूरवाहिनी काकपक्षध्वजो हंसरवो सुन्दरीशौ अश्वाद्यक्षरबीजौ अश्विनी 'अश्विनी य मजौ युग्मौ त्वाष्ट्रीपुत्रा' विति ॥ वसूनाम् उत्तरे दक्षिणाभिमुखाः पद्माभूः पुष्पव्रुरूत्रधराः पद्महूस्ताः द्विभुजा श्शश्ध्वजवाहनाः स्वात्युद्भवाः वसुप्रियृणामीशाः वंकारबीजः शङ्खरवाः वसवो ‘धरं ध्रुवं सोमम् अपोनलं अनिलं प्रत्यूषं प्रभास’ मिति ॥विघाधराणाम् तत्पूर्वे दक्षिणाभिमुखाः श्यामाभारतवस्त्रधरा दंष्टामुखा रक्तकेशा गदाधरा द्विभुजा डमरुकधरा महिषध्वजवाहना मेघरवा विद्याधरीणामीशा मंत्रादिबीजा विद्यांधरा विद्याधरान् मंत्रजलान् पुष्पजान् भोगजा' निति ॥