पृष्ठम्:विमानार्चनाकल्पः.pdf/115

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 20 79 यजुर्वेदस्य नैऋत्यम् प्राड्ँमुख: पीतवर्णः श्वेताम्बरधरः कुलिशहस्तो द्विभुजः कांस्यतालरवो अग्निकेतुः बुद्धीशः स्वरवाहनः इडाद्यक्षरबीजः पुनर्सूवंसूजातो यजुर्वेदो ‘यजुर्वेदं दधि मिश्रम् इष्टि’ मिति ॥सामवेदस्य वाय०यां प्राङ्ममुखो रक्ताभः पीतवासाः द्विभुजः सत्पस्वरवाहनध्वजो मूलोद्भवो मतीशो गानरवः सामाद्यक्षरबीजः सामवेदः 'साम घृतं वज्रं यज्ञ' मिति || अथर्ववेदस्य ऐशान्यां पश्चिमाभिमुख: अञ्जनाभः श्वेतवस्त्रधरो द्विभुजः कूर्चहस्तः स्रुवध्वजो हंसवाहनो हंसरवः कलेशः प्रोष्ठपाज्ज्ञातो अथर्वाद्यक्षरबीजः अथर्ववेदः ‘अथर्वणं पवित्रं क्षीरं पुण्य' मिति || शिवस्य अन्तराळे प्राच्यामुतरे शिवं पूर्ववत् ॥ विष्णा: तद्दक्षिणे पश्चिमाभिमुख स्सुवर्णः शुकपिञ्छाम्बरः श्रीपतिः खगध्वजवाहन श्चतुर्भुजः शंखचक्रधरं पाञ्चजन्यरवः श्रवणोद्भवः अजाद्यक्षरबीजो विष्णुः ‘विष्णुं पुरुषं व्यापिनं रत्नं विश्व' मिति ॥काश्यपस्य दक्षिणे चोत्तराभिमुखः कृष्णवर्णः पुष्पवस्त्रधरो वेणुदण्डधरो द्विभुजः शाश्ट्ऱाऱाव्वा स्त्रिपदावाहनः कमण्डलु ध्वजो विश्वाद्यक्षरबीजो हस्तजः काश्यपः 'काश्यपं विश्वमूर्तिम् अक्षतं तक्षक' मिति ॥ तत्पृश्चिमे चोत्तराभिमुखः पलाशूपुष्पाभः षङ्भुजः षण्मुखः सर्वाभरणभूषितो बालमौलियुतो देवयानीपति नम्द्क्र्बीजः शंखरवॊ मयूरधवजवाहनो गुहो ‘जगदभुवं विश्वभुबं रुद्रभुवम् ब्रह्मभुवं भुवद्भुव' मिति ॥