पृष्ठम्:विमानार्चनाकल्पः.pdf/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 विमानार्चनाकल्पे महाशास्त्रे

                                    बलिरक्षकस्य
                    होमस्थाने पश्चिमाभिमुखः श्यामवर्णः पीतांबरधरो द्विभुजोदण्डायुधो 
               रथवाहन: सिंहध्वजो नामाद्यक्षरबीजः शंखरवः श्रविष्ठाजः सुमनसापतिः 
               बलिरक्षको 'बलिरक्षकं द​ण्डं  सर्पजं सम' मिति ॥


                           चतुर्थावरणादेवेषु गविष्ठस्य
                   चतुर्थावरणे प्राग्द्वारोत्तरे खड्गसंकाश: पीतवासाः दण्डपाणिः 
              खगध्वजो रथवाहनः सत्यलोचनापतिः श्रवणजो नामाद्याक्षरबीजो 
              नागा(द)रवो गविष्ठो ‘गविष्ठं त्रैष्टुभं गुह्यमाकाश' मिति ॥


                               हरिण्याः 
               द्वारदक्षिणे पूर्ववत् हरिणीम् ॥
                    
                                
                               तोयस्य
               प​श्चिमे प्रङ्मुख उत्पलाभ​: शुकपिंचांबरधर पाशभृत् गजवाहन
         स्सिंहध्वज​:पकारबीजो वारणजो दुर्दरशब्द​: कनकाधिपति स्तोय:
        'पवित्रममृमृतं तोयंगौरब मिति ॥
                               अग्ने:
         
            दक्षिणे च उत्तराभिमुख: पिङ्गलाभो  नीलवासाः शक्तिभृत् गजवाहनः  
       कपिध्वजः संख्यापति शशंखरवो(ना}(र) माद्यक्षरबीजः अनलजोग्निः 
      ‘वीतिहोत्रंभुरण्यं शुद्धमग्नि' मिति ॥
                               वायोः
             उत्तरे दक्षिणाभिमुखः श्यामवर्णः पीतवासाः असिपाणिः गुजवहूनॊ 
       वेणुध्वजो यकारबीज श्चलिकापतिः स्वातीजः शङ्करवो वायुः ‘असुं समीरणं 
       वायुपृषदश्व' मिति ॥
                             ऋग्वेदस्य
             आग्नेय्यां पश्चिमाभिमुखः स्फटिकाभो रक्ताम्बरधरो द्विभुजः  पुष्प
       हस्तः षड्ऋतुध्वजवाहनो विद्येशो ऋताद्यक्षरबीजो.याम्यज ऋग्वेदः ‘ऋचं-
       मधुं सोमं क्रतु' मिति ॥