पृष्ठम्:विमानार्चनाकल्पः.pdf/113

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 2० 77 अभिजिज्ज्ञता पुण्याद्यक्षरबीजा सिनीवाली सिनीवाली हितर्दा हितदां गभस्तिनीं पुण्यदा' मिति ॥

                             हवीरक्षकस्य 
               पचनालये च उत्तराभिमुखः कृष्णवर्ण: शुक्लाम्बरधरो विकटकञ्चू 
          श्शूलपाणि: कुशेशयाक्षो नामाद्यक्षर बीज स्सुरगणेशः शङ्करवोऽश्चवाहनः 
          सिंहभ्वजो रोहिणीजो हबीरक्षको 'हवीरक्षकम् आग्रेयं पचनंशैलूष मिति॥


                            पुष्परक्षकस्य
             पुष्पसंचयस्थाने पश्चिमाभिमुखः कनकवर्ण. श्यामाम्बरधरो गज-
        वाहनः पुष्पध्वजो रेवतीज़ श्शङ्खरवः शुद्धुङ्केशो नामाद्यक्षरबीजः पुष्परक्षकः 
        'पुष्परक्षकं हरितम् अधिवासं फुल्ल’ मिति ॥


                            पुरुषस्य
      स्नानोदकसञ्चयस्थाने पुरुषं पूर्ववत् ॥


                         प्लोताधिपस्य

प्लोतवस्त्रोत्तरीयादि संचयस्थाने हेमाभः शुकपिंछांबरधरः चतुर्भुजः कलशाक्षमालापाणिः जटाधरो हंस वाहनो रूपाद्यक्षरबीज स्सावित्रीपतिः अभिजिज्जातः कमण्डलुध्वजो हुङ्काररवः त्वष्टा ‘त्वष्टारं रूपजातं निधिजं पलोताधिप' मिति ॥


                       शयनस्थानेगदाया:

शयनस्थाने पश्चिमाभिमुखा हेमाभा रक्ताम्बरधरा पद्महस्ता द्विभुजा

शिरसिगदाधरा सिंहध्वजव्राहिना घोररवा श्रविष्ठाजा गकारबीजा गद्दा'गदां

कौमोदकों पुण्यां प्रबला' मिति ॥


                         चामुण्डस्य 

हविर्द्र​व्यादि सञ्चयस्थाने पश्चिमाभिमुखो मेघवर्ण:, श्वेताम्बरधरो

विकटदंडपाणिः भूतपावन: शूलध्वजो नामाद्यक्षरबीजः कुंभशब्दरवः सर्वेशः 

आर्द्राजातः चामुंडः 'सर्वेश्वरं जगन्नाथं चामुण्डं सर्वत श्चर’ मिति ॥