पृष्ठम्:विमानार्चनाकल्पः.pdf/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प​टलः २० 75

      उद्धकेशी पौष्णजा जलघोषरवा मकरध्वजवाहना सिताद्यक्षरबीजा सिन्धुः  
      'सिन्धुं नदीवरां मृद्वङ्गी साधना’ मिति ॥
                                दुर्गायाः
              प्राग्द्वारादुत्तरे श्यामवर्णा सिताम्बरधरा अष्टभुजा चतुर्भुजा वा शंख-
          चक्रधरा सर्वाभरणसंयुक्ता कक्ष्याबद्धघनस्तनी कृत्तिकोद्भवा घण्टारवा
          नामाद्यक्ष्रबीजा सिम्हध्वजवाहना दुर्गा 'दुर्गाम् कात्यायनीम्  वैष्णवीं विन्ध्य-
          वासिनी ' मिति॥
                               सरस्वत्याः
             आग्नेय्वाम् रक्तवर्णा श्वेतवस्त्रधरा चतुर्भुजा अक्षमाला कमंडुलुग्ना
         मुद्रापुस्तकयुता हंसवाहना नामाद्यक्षरबीजा अश्विनीजाता प्रणवरवा सिद्धिः 
        ‘सिद्धिं विश्वां भृगुपत्नीं सरस्वती' मिति ॥
                                श्रियः 
              नैर्ऋत्यां श्रियं पूर्ववत् ॥
                               ज्येष्ठायाः
              वायव्यां रक्तभ पुष्पांबरधरा पीनस्तनी पुष्पनिधिभाजनधरा दक्षिणे
         पीतगदाधरा, वृष(भ)युतावा रक्तनीलपरीतांगी मौञ्जलिकाञ्जियुता ज्येष्ठा-
         नक्षत्रजाता स्त्ररयुक्ता श्यामांबरधरा रथवाहना  रथवाहना काकध्वनियुताकाकध्वजा
         नामाद्यक्षरबीजा ज्येष्ठा 'भूर्ज्येष्ठायिनीं सुवर्ज्येष्ठायिनीं कलिरा
         जायनीं कलिपत्नी' मिति ॥

                                धात्र्याः
               ऐशान्यां रक्ताभा श्यामाम्बरधरा उग्रनयना महारौद्री दंष्ट्राभ्या-
          मलंकृता बाल​मौल्युत्तरासंगा त्रिशूला षड्भुजा भ्रूभङ्गविकटा कपाल-
          पाशहस्ता रक्तकुंचितमूर्धजा अट्टहाससहिता अवग्रघीठसमासीना डम-
          रुकध्वनियुता नामाद्यक्षरबीजा पिशाचध्वजवाहना आर्द्रानक्षत्रजाता धात्री
          ‘धात्रीं महोदरीं रौद्रीं महाकाली’ मिति ॥
                                सुरायाः

                अन्तराले प्राच्यां प​श्चिमाभिमुखा रक्तवर्णा जपांबरधरा पुष्पहस्ता