पृष्ठम्:विमानार्चनाकल्पः.pdf/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 विमानार्चनाकल्पे महाशास्त्रे

                                  मंदस्य 

           उत्तरे दिगीशस्यपश्चिमे दक्षिणामुखः अञ्जनाभः द्विभुजः कुश
      चीरांबरधरो रेवतीज:कुमुदापतिः वराहध्वज वाहन: शंखरवो नामाद्य-
      क्षरबीजो मन्द: 'सूर्यपुत्रं मंदं रैवत्यं शनैश्चर’ मिति ।
                                   राहोः
               तत्प्राच्यां दक्षिणामुखः श्यामाभोजपाम्बरधरो द्विभुजो नागचूलिक-
           मस्तक: पाशायुधो मण्डलावृतमौलि स्सर्पध्वजवाहनो आश्लेषाजो जरा-
           पतिः नामाद्यक्षरबीजः राहुः ‘राहुं दैतेयमुरगेशं ग्राहक' मिति ॥
                                   केतोः  
               प्राच्यां पश्चिमाभिमुखो धूमवर्णः श्वेतांबरधरो नारीशः अन्यत्सर्वं 
         राहोरिव केतु: 'केततुम्  कृष्णम् रौद्रम् प्रकाशिन मिति।यादिग्द्वारं तद्दिग्द्वारपार्ष्वे 
         अचयेत् ॥
                         
                 तृतीयवरणे   गङादीनाम् चतुर्नामादि
 
          तृतीयवरणे  प्रग्द्वारदक्षिणे   पश्चिमाभिमुखा व्दिभुजापीताम्बरधरा           
      श्वेताभा कृष्णकुंचितमूर्धजा हृदये अञ्जलिसम्युक्ता रेवतीजा गकारबीजा 
      कूर्मध्वजवाहना शंखरवा गङ्गा ‘नळिनीं जाह्नवीं गङ्गां लोकपावनी’ मिति ॥


                                  यमुनया:
            दक्शिणे चोत्तरामुखा श्यामवर्णा रक्तवस्त्रधरा पीनस्थनी  कृष्णकुञ्चित-
      मूर्धजा द्विभुजा पुष्पहस्ता पुरपुष्टरवा मत्स्यवाहनकेतुका मूलजा यमाद्यक्षर-
      बीजा यमुना 'यमुनां स्प​टिकां नदीव​रां पावनी'मिति॥
                                  नर्मदायाः
              पश्चिमे रक्ताभा प्राङ्मुखा श्वेतवस्त्रधरा सुखासीना द्विभुजा पुष्प
      मालाधरा कूर्मध्वजवाहना जलजक्कुटरवा अश्विनीजाता नद्याद्यक्शरबीजा
      नर्मदा 'निर्मदां नदीवरां विद्युद्रूपाम् विशाला' मिति ॥
                                  सिन्धो:
                उत्तरे दक्षिणामुखा कृश्णश्वेताभा पुष्पवस्त्रधरा पद्महस्ता द्विभुजा