पृष्ठम्:विमानार्चनाकल्पः.pdf/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलं: 20

    थाधिपपाकोर्जुनान् बलिपीठपाश्र्वे च संयोज्यार्चयेदिति केचित् ॥
           आवरणबलिदेवाः
     प्रथमावरणे, द्वितीयेवा, पूर्ववदिंद्रादीनर्चयेत् । प्रगादि द्वारदक्षिणपाश्र्वेर्र

तत्तद्दिगीशानर्चयेत् ।।

           द्वितीयाबरणे नवग्रहाणां चतुर्नामादिकम्
     द्वितीयावरणे प्राग्द्वारादुत्तरे पश्चिमाभिमुखो रक्तवर्णः शुक्लांबरधरो

द्विभुजः पद्महस्त स्सप्ताश्ववाहनो हयध्वजो रेणुकासुवर्चलापतिः खकार बीजोऽब्धिघोषणरव स्सहस्रकिरणो मण्डलावृतमौलिः श्रवणेमासि हस्तजः आदित्यः ‘आदित्यं भास्करं सूर्यं मार्त्ताडं विवस्वंत' मिति ॥

     तद्दिगीशास्यदक्षिणे पश्चिमाभिमुखः श्वेताभो रक्तांबरधरो द्विभुज

इक्षुचापभृत् मंडलावृतमौलिः हिरण्मयोऽष्टाश्ववाहनः कुलीरध्वजोहंसरवो रोहिणीशः सकारबीज स्सौम्यजश्वंद्रो 'वसिष्टं सोमंयज्ञांगंइं दुमतिं चंद्र ' मिति ।

    दक्षिणे च उत्तराभिमुखो बंधूकवर्णो नीलांबरधरः शक्तिपाणिः शर

भध्वजः शुकजुष्टापतिः अश्वनीजातः अश्ववाहनः शंखरवो नामाक्षरबीजः अङ्गारक 'अंगारकं वक्रं रक्तं धरासुत मिति ।

    तस्यपश्चिमे च उत्तराभिमुखः श्यामवर्णो रक्त्ंबरधरो द्विभुजो

रथवाहनः सिंहध्वज शंखरवो नामाद्यक्षरबीज स्सुशीलापतिः श्रविष्टाजातो बुधो 'बुधं श्यामं सौम्यं श्रविष्टाज' मिति ॥

                  गुरोः
     पश्चिमे दिगीशस्यदक्षिणे प्राङ्मुखः पीताभः श्यामांबरधरो दर्भहस्तः

पूरितमकुटः कृष्णाजिनधरः कुशध्वजो हंसवाहनः तिष्यज स्तारापतिः नामा द्यक्षरबीजः बृहस्पतिः 'पीतवर्णं गुरुं तैष्यं बृहस्पति' मिति ॥

                 शुक्रस्य

    तस्योत्तरे प्राङ्मुखो रजतवर्णो वल्कलांबरधरोऽजिनजटाधरो मेघ

वाहनः स्त्रुवध्वजो रोहिणीजो नामाद्यक्षरबीज स्सुमदापतिः शंखरवः शुक्रः शुक्रं भार्गवं काव्यं परिसर्पिण' मिति ।