पृष्ठम्:विमानार्चनाकल्पः.pdf/108

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्पे महाशास्त्रे

      तुण्डायुधः पक्षघातरवो गणाद्यक्षरवीजो गरुडो 'गरुडं पक्षिराजं सुवर्णं

खगाधिप' मिति ॥

               चक्रस्थानादि
      तत्पूर्वे चक्राङ्गारवर्णे रक्ताम्बरधरः शिरसिचक्रभृत् पुष्टिकेशोधूम-

केतुः प्रवृत्तवाहनः तज्जनितरवः चकारबीजोऽनलस्सुदर्शनः 'सुदर्शनं चक्रं सहस्रविकच मनपायिन' मिति ॥

              शंखस्थानादि
     तत्पूर्वे पाञ्चजन्यो दुग्धाभो रक्तवस्त्रघरो भूताकृतिः शिरसि शंख

भृत् वियद्रतिध्वजो वियद्गात्रायुधो हंसवाहनः कंठशब्दरवो वारुणीपतिः शकारबीजो नलजः पांचजन्यं 'पाञ्चजन्यं शंखम् अंबुजं विष्णुप्रिय' मिति ॥

             ध्वजस्थनादि
    तत्पूर्वे हाटकानः शुक्लाम्बरधरः ऊर्ध्वकेतुः शंखकेतुः वायुवाहनः

सिंहारवो स्वातीजातो जकारबीजो जयप्रियापति र्द्विभुजः पद्मधरः आसने दक्षिणं पादं प्रसार्य वाममाकुंच्याऽऽसीन स्सर्पयुक्तो हृदयेंऽजलिसंयुक्तो जयो 'जयम् अत्युकछितं धन्यं ध्वज' मिति ॥

            यूथाधिपस्थानादि
   तत्पूर्वे यूथाधिपः पीठे बहिर्मुखः श्वेताभो रक्तवस्त्रधरो भूताकारो

द्विभुजो दण्डधरो भूतकेतुर्महाचातक वाहनः रविजेशो गतिशब्दरवः श्रवि- ष्टाजो भूताद्यक्षरबीजो महाभूतो 'यूथाधिपतिं नित्य मुग्रं महाभूत' मिति ॥

           अक्षहन्तृस्थानादि
   तत्पूर्वे पीठे पाकार्जुनो रुक्माभः पद्मनेत्रः कृष्णकुंचितमूर्धजः भूता

कारः कृष्णवस्त्रधरः कुण्डोदरो द्विभुजो दण्डहस्तो स्वातीजात स्सिहनादरव स्सिहध्वजवाहनो भूताद्यक्षरबीजः स्सुमुखीपति र्विष्णुभूतः पाकः ‘अर्जुनं हस्तम् अक्षहन्तारं विष्णुभूत' मिति ॥

         चक्रादीनां स्थाने मतान्तरम्
  एते अनपायिनः एतेषु श्रीभूतगरूडौ प्रासादपार्श्वे चक्रशंखध्वजयू-