पृष्ठम्:विमानार्चनाकल्पः.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटमल: 20

                           प्रथम द्वारदेवते
      प्रथमद्धारदक्षिणे श्वेतवर्णः शुक्लांबरधरः स्रुकध्वजो गजवाहनो रोहिणीज स्संध्यानाथ श्शंखरवो यंत्रिकायुध: मकाराद्यद्यक्षरबीजो मणिको मणिको भणिकं महाबलं विमलं द्वारपालक' मिति ॥
      वामे तस्यपत्नि कनकाभा सितांबरधरा पुष्पहस्ता सौम्यजाशुकस्वर रवा सकारबीजा संध्या 'संध्यां प्रभावतीं ज्योतिरूपां दृढव्रता' मिति ।
                         मुखमडप द्वारदेवते

      मुखमंडपद्वारदक्षिणे-स्फटिकामो हेमांबरधरो रुरुवाहनः कुशध्वजो विधिजो दिव्येशो नामाद्यक्षरबीजो दण्डधर श्वतुर्भुजो वेदरवो विखना ‘विखनसं तयोयुक्तं सिद्धिदं सर्वदर्शन’ मिति ॥
      वामे रुरुवाहन: कूर्चध्वज: ताराद्यक्षरबीज स्संधिनीशो वेदरवो दण्डधरो द्विभुजः पुष्यसंभव स्तापस 'स्तापसं सिद्विराजं सर्वदोषविवर्जितं सहस्राश्वमेधिन’ मिति ।
                        प्रथमावरण द्वारदेवते
      प्रथमावरण द्वारदक्षिणे अग्निवर्णः शुक्लां (कां) बरधरः कूर्मवाहनः शरध्वजो संमोदिनीपतिः (ध्रुवा) द्यक्षरबीजः प्रोष्टपाज्जातो दण्डपाणि स्सिंहरव: किष्किन्ध: किष्किन्धं बहुमर्दिन्ं बहुसेनं दृढ़व्रत' मिति ।
      वामे श्वेताभो रत्कांबरधर: कूर्मवाहनः शरध्वजो विशोकापति र्वेणुदण्डायुध स्तीर्थाद्यक्षरबीजो आर्द्राजो मेघरवः तीर्थ:'तीर्थम् उद्वाहकं सर्वयोग्यम् उदावह’ मिति ॥
                       द्वितीयावरण द्वारदेवते
      द्वितीयावरण द्वारदक्षिणे च - उत्तराभिमुखः प्रवालाभः एकदन्तः कर्णादूर्ध्वगजाकारो वामनः कुशध्वजो वेणुकंकतवाहनः शंखरवः चतुर्भुजः कदळीफलहस्तः आर्द्रापतिः श्रविष्टाजो वक्रतुण्डः 'वक्रतुंडम् एकदंष्ट्रं विकटं विनायक' मिति ॥ 
      उत्तरे शंखवर्णो निलांबरधरः किरीटी सिंहासने समासीनः द्विभुजो जवनीपतिः सार्पजो हस्तताळरवः शेषाद्यक्षरबीजः सागरध्वजवाहनो नवभिः