पृष्ठम्:विमानार्चनाकल्पः.pdf/104

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 विमानार्चनाकल्पे महाश्त्रे

                           धाद्रादीनां लक्षणम्
         दक्षिणे गंधर्वस्थाने वेणुवर्णो रथकेतु स्संधिनीश उदङ्मुखो धाता,
     बामे गधर्वस्थाने शुकपत्राभो गजवाहन स्सर्पध्वजो ऊर्ध्वेशो दक्षिणामुखो
     विधाता, द्वारदक्षिणशिरा ऊर्ध्र्वमुखो नीलवर्णो वृषभवाहनोऽग्निकेतुः
     प्रीतीशो भुवंग भृतिः पूजकादिभिरर्चनाकालादन्यत्राऽनलंध्यः उपरिस्थाने
     पूजयेत् । तदुपरि शुक्लाभ स्तुरंगवाहनः श्वेतकेतुः भरणीश उदारः अधोमुखः
     पतङ्गः द्वारदक्षिणभागे सुवर्णाभो गजवाहनो वृषध्वजो बलेशः पतिरः, वामे
     सुवर्णाभो रथवाहनः शङ्कध्वजो धरणीशोऽवाकशिरा वरुणः एतेनामाद्य-
     क्षरबीजा रशंखरवा आश्वयुज्यां हस्तजथ ॥ 
                          धानादिनां चतुर्नाम
        'धातारं ङंभिनं सनिलं गंधवं, विधातारं कीनाशं मूलंडंन्यर्णं, भृतिं
     भुवंगम् उत्संगं पीठं, पतंगम् उत्करम् अपदानं कपर्दिनं, पतिरं बल्वितं
     मध्यगं वंखंरं, वरुणं तेजिनं दंसिनं तरस्विन' मिति षडेतान् कबाटं
     यत्राऽस्ति तत्रार्चयेत् ॥
                    
                       आलयबाह्मे न्यक्षादि देवाः
         आलयस्य बहिःपार्श्व प्राग्द्वारमध्ये प्राङ्ममुखो दूर्वाकुरवर्णो हेमां-
     बरधरः प्रज्ञा (पूजा)  त्पीशो दण्डपाणि: श्येनध्वजवाहनो रोहिणीजो
     न्थक्षाद्यक्षरबीजो 'न्यक्षं दीधीन्यकं पीवरमार्यक' मिति ।
        दक्षिणे दक्षिणामुखो रक्तवर्णस्सितांबरधरः उत्साधिनीपति र्दण्डधरः
    पिंडिपालध्वजोहयवाहनः मंस्खोद्भव: सुक्ध्वनि: विश्वाद्यक्षरबीजो विवस्वान् 
    विवस्वंतं भरतं विश्वकर्माणं मरीचिमंत' मिति ॥
        पश्चिमे पश्चिमाभिमुखः शरभांडनिभं पुष्पांबरधरः कपोतवाहनः
    धूमकेतु ज्व्रालात्युधो विशाखाजो मेघरवो नामाद्यक्षरबीजो मित्रो ‘मित्रमित्वरं
    राजिष्वंतं रमणक' मिति ॥
        उत्तरे च उत्तराभिमुखो हेमाभः पुष्पांबरधरो मृगवाहनो महिषध्वजो
    मूलजों दण्डपाणि र्वाणीपतिः वेदरव: क्षत्ताऽऽद्यक्षरबीजः क्षत्ता 'क्षत्तारं
    महीधरम् उर्वरोहं शेवधि’ मितिं ॥