पृष्ठम्:विमानार्चनाकल्पः.pdf/103

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षटल: 20 67

     विश्वः, सर्वैरक्तांबरधरा भेरीरवा रोहिणीजा तन्नामाद्यक्षरबीजाश्च एतान्-
     पीठान्ते प्रागादि बहिर्मुखान् अर्चयेत् ।
            हेमाभ स्सनातनः, कुन्दाभः सनन्दनः, गुञ्जाभः सनत्कुमारः,
     स्फटिकाभस्सनकऋश्व, सर्वे श्यामांबरधराः पद्मवाहनः कूर्चध्वजा:
     ब्रह्मचारिनण: नामाद्यक्षरबीजाः पुष्यजा शङ्गनादरवाश्च, एतानाग्नेयदि
     कोणेषु बहिर्मुखानर्चयेत् ॥
                           मित्रादीनां चतुर्नाम
           मित्रलोकहितंविश्वात्मानंकपि (वि) वरम्, अत्रिंत्रिधागतिंतृतीयात्मकं
     वेदमूर्तिम्, शिवं मुनिवरं शुद्धं सुयोक्तारम्, विश्वं भूतनायकंजगीद्वीक्षणं
     सर्वमातृकम्, सनातनं मुर्नीद्रं ब्रह्मसंभवं निष्ठानकम्, सनन्दनं गुरुं सर्वपूज्यं
     मंत्रज्ञम्, सनत्कुमारं ज्योतिरीशं निरुद्वेगमक्रोधम्, सनकं नियंतारं धर्मीज्ञं
     धर्मचोदितमिति ॥
                            तृतीयावरणदेवाः
          तृतीयावरणे इन्द्रादीन् दक्षिणे श्रियं वामे हरिर्णी च, पूर्ववदर्चयेत् ॥
                            ब्रह्मादिलक्षणम्
          दक्षिणेभित्तिभार्श्वे रुपप्राभो हंसवाहनः कमंडलुध्वजोऽभिजित
     स्सावित्रीपतिः उकारबीजो वेदरवो ब्रह्म 'ब्रह्माणं प्रजापतिं पिता
     हिरण्यगर्भ' मिति ॥
          सुवर्णाभो ब्रह्मचारी रक्तांबरधरः पञ्चवाहनः कूर्चध्वजः शंखरबः
     मकारबीजः मार्कडेय: 'माकंडेयं पुण्यं पुरातनममित' मिति ॥
          वामे भित्तिपार्श्वे श्वेताभो व्याघ्रचर्माबरधरः परशुमृगदडधर: चतुर्भुजो
     वृषध्वजवाहनो डमरु(क) ध्वनिः मकारबीजः आर्द्राज उमापति र्गङ्गाधरो
     'गङ्गाधरं वृषवाहनम् अष्टमूर्तिमुमापतिं’ मिति ॥
         अग्निवर्णः शुक्लांबरधरः पद्मवाहन: कमण्डलु ध्वजो रोहिणीः
     शङ्करवो नामाद्यक्षरबीजः ख्यातीशः पद्मापिता 'पद्मपितरं धाक्तृनाभं
     ख्यातीशं भृगु' मिति ॥