पृष्ठम्:विमानार्चनाकल्पः.pdf/106

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 विमानार्चनाकल्पे महाशास्त्रे सत्पभि:पंचभिर्वा पृष्ठोद्गतैः फणै स्समाछादित मौळिः नागराजः 'नागराजं सहस्रशीर्षमनन्तं शेष' मिति ।। "

                 तृतीयावरण द्वारदेवते
      तृतीयावरणे द्वारदक्षिणे शंखाभो नीलांबरधरो भूतकर:शुद्वापतिः पद्मध्वजवाहनो हस्ताभ्यां शंखंदधानो वारुणः शंखादिबीजः शंखरवः शंस्वनिधिः ‘शंखनिधिंवरं धनदं मौक्तिकोद्भव’ मिति ॥

      वामे रक्ताभो जपांबरधरो विशुद्धेशो हस्ताभ्यां पद्मंदधान: पद्मध्वजवाहनः प्रोष्टपाज्जातः सिंहनादरवः पद्माद्यक्षरबीजः पद्मनिधिः ‘पद्मनिधिं वरं रक्ताभं भूतनायक' मिति ।
                चतुर्थावरण द्वारदेवते
 
    चतुर्थावरणे द्वारदक्षिणे-रक्ताभः श्वेतांबरधरो नागचूळिकमस्तकः उद्देश्यकरो भामिनीश स्तुरगवाहनोऽहि ध्वजो भेरीरव स्तुकारबीजो हस्तज स्तुहिणः "तुहिणं दैत्यराजं विष्णुभक्तं गदाधर’ मिति ॥
     वामे श्र्यामाभो रक्तांबरधरो नागचूळिकमस्तक: उद्देश्यकर स्सुधापति: व्याघ्रवाहन स्सर्पध्वजो झल्लिरीरवो हस्तजो बल्यादिबीजो बलिन्दो दैतेयं महावीर्यं बलिन्दं शूलपाणि' मिति ॥
               षन्चमावरण द्वारदेवते

     षन्च्मवरणे द्वारदक्षिणे श्वेताभो नीलांबऱाधर्: श्शिरसिश्खडगधरो वायु बाहन अनलध्वजो घोररवः स्वातीजो बलेशः स्वकारबीजो नन्दको 'नन्द कं खड्गं पापहरं दैत्यनाशन' मिति ॥
     वामे पञ्चवर्णेयुक्तं श्वेतांबरधरं नपुंसकं शिरसि चापधरं मेघवाहनं शरध्वजं महानादरव विशाखाजं शार्ङ्गः 'शार्ङ्ग धनुर्वरं शत्रुहंतारं वरायुध' मिति ॥
               षष्ठावरण द्वारदेवते
     षष्ठावरणे द्वारदक्षिणे श्वेताभो नीलवासा श्शिरसिशंखभृत् दण्डाययुधो नन्देशो रोहिणीजो वियद्गतिध्वजो हंसवाहनः कंठशब्दरवो नामाद्यक्षरबीजः शंखचूली 'शंखचुलिनं वृक्षदण्डं श्वेताभं घोररुपिण' मिति ।