पृष्ठम्:विमानार्चनाकल्पः.pdf/100

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64 विमानर्चनाकल्पे महाशास्त्रे

                                द्वितीयावरणदेवा:
         द्वितीय्यावरणे प्राच्यां वराहः प्राङ्मुख श्यामाभ श्चतुर्भुज: शंखचक्र
    धरः सर्वाभरण संयुक्तः रक्तांबरधरः वराहाननः श्रीभूमिभ्यांसहितः ‘वराहो
    वराहं वरदं भूमिसंधारणं वज्रदंष्ठ्र मिति |
         आग्नेय्यां प्राङ्मुख इंदीवराभो हेमांबरधरः चतुर्भुज: शंखचक्रधरः
    सर्वाभरणभूषितः कमलाऽवनीभ्यां सहित स्सुभद्रः ‘सुभद्रं सुमुखं सुखप्रदं
    सुखदर्शन' मिति |
         दक्षिणे दक्षिणाभिमुखो नारसिंहः श्वेताभः रक्तवसुंधरः चतुर्भुज
    शंखचक्रधर: अभयकट्यवलंबित करः सिंहाननः श्रीभूमिसहितः नारसिंहः
    ‘नारसिंहं तपोनाथं महाविष्णुं महाबल' मिति |
        नैऋत्यां पश्चिमाभिमुखो हेमाभः श्यामांबरधरः चतुर्भुज: शंखचक्र 
    धर:किरीटहाराद्याभरणान्वित: पद्मास्थिराभ्यायुत: ईशितात्मा 'ईशं वरदं-
    सर्वेश्वरं ईशितात्मान’ मिति ।
        पश्चिमे पश्चिमाभिमुखो वामनो ब्रह्मचारी वकुलफलाभो द्विभुजः
     छत्रधरः दण्डधर स्समेखल: कौपीनवासाः सोपवीत: कृष्णाजिनधरः
     पवित्रपाणिः वामनो 'वामनं वरदं काश्यपमदितिप्रिय' मिति |
        वायव्ये पश्चिमाभिमुखो नीलाभः पीतांबरधरोलक्ष्मीधरणीभ्यां
     युक्त:सर्वोद्वहः ‘सर्वेशं सवाधारं सर्वज्ञं सर्वोद्वह' मिति |
        उत्तरेचोत्तराभिमुख स्त्रिविक्रमः श्यामाभः चथुर्भुज: शंखचक्रधरः
     पीतांबरधरो हारादिभूषित स्सुस्थितवामपादो ललाटान्तोद्धत दक्षिणपाद
     उद्धृतपादप्रसारितदक्षिणहस्तः कट्यवलंबितवामहस्तः त्रिविक्रम त्रिविक्रमं 
     त्रिलोकेशं सर्वाधारं वैकुंठ' मिति ।
        ऐशान्यां प्राङ्मुखो रक्ताभः श्यामांबरधरः कनकाश्यामाभ्यां सहितः
     सर्वविद्येश्वर: 'सर्वविद्येश्वर: पुण्यं शुध्दं ज्ञान' मिति |
        पुरुषादीनामनुक्तं सर्वं विष्णोरिवेति विज्ञायते ||
                          तृतीयावरणदेवा: 
             तृतीयवरणे प्राच्यां श्यामाभ: अभ्यंतरमुखो जपांबरधरो ज्येष्ठजो
           द्विभुजो धृतकुलिशदाक्षिणहस्त: कट्यवतंबितवामहस्त: किरीटाद्या -