पृष्ठम्:विमानार्चनाकल्पः.pdf/101

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 20 65

     भरणान्वितो मेघनादरवो वेणुध्वजो गजवाहनः शचीपतिः जका (राद्यक्ष)
     रबीजः 'इन्द्रं शचीपतिं पुरुहूतं पुरन्दर’ मिति ॥
            आग्नेय्यां वह्निजातः किंशुकपुष्पसदृशः शक्तिपाणिः कुण्डलाङ्गद
        हारवान् शुकपिञ्छाऽम्बरधरः कपिध्वजवाहनः स्वाहापति रिकारबीज
        स्सर्वदेवमुख आसीनोऽग्निः ‘अग्निं जातवेदसं पावकं हुताशन' मिति ।
            दक्षिणे श्यामाभो रक्तवस्त्रधरो गदी व्यालध्वजो महिषवाहनो
        भरिणीजः फकारबीजः शुकांगीशो घंटानादरवो यमो ‘यमं धर्मराजं प्रेतेशं
        मध्यस्थ' मिति ॥
            नैरृत्यां नीलाभो रक्तांबरधर: शूली भौतिकारव्येभवाहनः कृक -
        लासध्वजो भूलजः सम्मोहिनीपतिः पकारबीजः घणवरवो निरृति:
        'आरंभाधिपतिं नीलं निरृतिं सर्वरक्षोऽधिपति’ मिति ॥
            वारुण्यां नीलवर्णो रक्तवस्त्रधर: पाशीसिंहध्वजो वारुणज्ञः
        सुप्रतीकेभवाहनः अञ्चनापति: वकारवीज: दर्दुररवो वारुणो 'वरुणेप्रचेतसं
        रक्तांबरधरं यादसांपति’ मिति ॥
            वायव्ये कनकाभ स्सितांबरधरो गजवाहनः वायुजो वेणुध्वज:
        कुमुद्वतीपतिः दण्डभृत् यकारबीजः शंखरवो वायुः ‘जवनं भूतात्मकं-
        वायुमुदान' मिति ॥
           उत्तरे सितवर्णः श्यामांबरधरो दण्डी पुष्पकवाहनः कृकलासध्वजः
        ककारबीजो यवनलापति र्धनिष्टाजो मृदंगरवः कुबेरः 'कुबेरं धन्यं पौलस्त्यं
        यक्षराज' मिति ॥
           ऐशान्यां पाटल्याभ स्सितांबरधरो वृषध्वजवाहनः जटामौलिश्व​तु-
        र्भुज​: त्रिनेत्रः शूलपाणिः शकारबीजः आर्द्राज: पार्वतीशो डमरध्वनि रीशानः
       'ईशानमीश्वरं देवभव’ मिति ॥
           इंद्रादयोवाष्टावभ्यंतरमुखा एतेष्वंनिरुध्दं त्रिविक्रमं वामनं, च विना
        ध्रुवेस्थिते स्थितान् आसीनेत्वासीनान् शयने, यानके च तत्तत्कौतुकवत्
        ध्यायन् अर्चयेत् ॥ 
                             श्रीभूचतुर्नाम
          देवस्यदक्षिणे रुग्मभा क्षौमांबरधरां पद्महस्ता कक्ष्यबद्धघनस्तनी
        ललाटोपरिं पुष्पचूड़ान्विता मकुटं हारादि सर्वाभरणभूषिता श्रीवत्सांदिबीजा