पृष्ठम्:विमानार्चनाकल्पः.pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धेनुर्वहाणामदिति स्सुराणं ब्रह्मा र्रुभूणां विखना मुनीनाम् । ऋग्वेदे पवस्वंतं, वैखानसः पवस्वतेत्यादिशतर्चः वैखानसाधिदेवताः ।यजुर्वेदेवैरवानसं पूर्वइहसामभवति, विरवनसाद्दष्टं सामापिश्रूयते - ऊहे दशरात्रे सप्तमेह्निं; विशेषेण रविननाद्विरवनाः । अाह भगवान्व्यासः-कर्मकाण्डे "खनित्वाचात्मनात्मानं धर्मादि गुणसंयुतं । ध्यानमाविश्यायोगेन ह्यासीद्विख-नसो विमुः । खननं नत्र मीमांसाह्यासिध्देः परतः परात् । विशेषेण खनेध्य स्मात् भावनान्मुनिसृष्टयोनाम्ना विखनसो लोके स आसीदंडजाप्रयः” इति गूढार्थप्रकाशने खनशब्दः प्रयुज्यते। तथामहाभारतेपि इति दशविधनिर्णये। “वैखानस इति" “क्कचित् विखनसः इति विखनाः” इति चत्रेधाऽयं शब्द स्समानार्थतया पठ्यते। वैयासिक्यादि निघंटुष्वपि विखनाश्व विरिंचन इति। भृग्वंगिरादय: नवापि विखनसः शिष्याः, यथोक्तम्। एते विखनसः शिष्याः श्रुतिस्मृतिविधानत इति । भारतेच वेदानांव्यसनादर्वाक्प्राग्रूपं मिलितं तु यत्। तांतु वैखानसीं शाखां इति ब्रह्मविदो विदुरिति। भागवत मतप्रशंसायां श्रीयामुनाचार्यरुच्यते, "इदमपि (वैखानसमपि) भागवतमतमिति संगृह्यते" इति । वैखानसा: पांचरात्राश्चेति द्विविधा: भागवता: । कल्पसूत्र व्याख्यातारश्र्च तत्र तत्र भागवतानां सूत्रं विखनः प्रणीतं सूत्रमिति, उदाहरन्ति । वैखानससंहितासु वैखानसानां भागवता इत्येव व्यवहारोपि स्फुटः । अन्यत्रंच "वैखानसास्च सूत्रस्च अन्गेश्श्रामणकस्चच, नारायणस्च देवस्च याथार्थ्यं न च विन्दति" इति  बोधायन: धर्म द्वितीयखण्डे "बानप्रस्था वैखानसशास्त्रेण समुदाचारेण" इत्यादॉ श्रामणकंनाम वैखानसंसूत्रं "तेनान्गिमादधीत वानप्रस्थः” इति आपस्तंब गौतमयममनुशंखलिखितहारीतवसिष्ठादिभिः वानप्रस्थाग्निपुरोडाशपौंडरीक कुण्डादिविधानेषु मूलप्रमाणत्वेन विखनस्सूत्रमेवाश्रितं, तथाचोक्त्तं ।