पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

चारणेभ्यो निशम्य इहस्थं त्वामुपागतः इति प्रवृत्तिं विधाय महेन्द्रोपकारसम्प्रीतः राजानं देवेन्द्रं द्रष्टुमभ्यर्थयते। राजा च स्वविनयं प्रकाशयन् वज्रिणः वीर्येणैवेदं सुसम्पन्नम् इति समाख्यापयन् शतमखदर्शनस्याययं नावसरः, त्वमेवोर्वशीं प्रभोरन्तिकं प्रापयेति प्रार्थयति। राज्ञो विचारं सम्प्रति साम्प्रतं मत्वा चित्ररथः अप्सरोभिः ‘साकमेकाक्येव गन्तुं प्रतिजानीते। उर्वशी चोपकारिणे नृपाय किमपि कृतज्ञतासूचकं वक्तुकामा अपि लज्जागौरवात् अशक्नुवाना चित्रलेखामुखेन “महाराजाभ्यनुज्ञया महाराजस्य कीर्तिं प्रियसखीमिव दिवं निनीषुरस्मीति" निवेदयति । राजा च पुनर्दर्शनाय प्रार्थयते । सर्वाः सगन्धर्वाः आकाशमुत्पतन्ति । उर्वशी च राज्ञ्यासक्तचेतसी उत्पतनभङ्गमिषेण लताविटपे वैजयन्त्याः लग्नत्वं प्रकाश्य तत्र रुद्धा चित्रलेखां मोचयेत्याह। सा च परिहासमकुर्वत दृढलग्ना सा मोचयितुं अशक्येति । उर्वशी च परिहासं विहाय मोचयितुं कथयति, चित्रलेखा च तस्याः दुर्मोच्यत्वं प्रकाशयन्ती मोचनव्यापारं नाटयति । उर्वशी नृपाहितमनस्का अस्य परिहासस्य भाविफलं विचिन्त्य "स्मरस्वैतत्ते वचनम्-" इति स्वपक्षं द्रढयति । राजा च स्वमनसि लतायाः उर्वशीगमनप्रतिरोधात् आत्मन्युपकारित्वं प्रख्यापयन् धन्यवादततिं समर्पयति यतस्तस्या एव कारणात् अपाङ्गनेत्रा पुनरपि सा परिवृत्तार्धमुखी नयनेऽतर्पयत् । चित्रलेखया एकावल्याः मोचनानन्तरं उर्वशी विरहजन्यविकारदुःखेन दीर्घं निःश्वसन्ती सस्पृहं राजानं प्रेमपरिप्लुतनेत्राभ्याम् वीक्षन्ती सखीजनं गगनमार्गगामिनं परिज्ञाय 'अपि नाम पुनरिममुपकारिणं प्रेक्षिष्ये इति विचारयन्ती यथाकथञ्चिद् अपक्रान्ता । 'सूतश्च आयुष्मते राज्ञे सुरेन्द्रस्य कृतापराधान् दैत्यान् नाशयित्वा ते वायव्यमस्त्रं तूणीरं प्रविष्टमिति न्यवेदयत् । राज्ञा च रथमुपश्लेषयितुं आज्ञप्तः राजानं रथमारोहयति । राजा चोर्वशीमार्गोन्मुखः “मदनो दुर्लभाभिलाषीति-" उपालभ्य यथा राजहंसी खण्डिताग्रभागान्मृणालाद्बिसं कर्षति तथैवेयं सुराङ्गना मे देहान्मनः प्रसभमाकर्षतीति मनस्याशंसन् तदीयचिन्ताव्यग्रचित्तो निष्क्रामति ।

॥ इति प्रथमोऽङ्कः॥


॥ द्वितीयोऽङ्कः॥

 प्रथमाङ्कवस्तुभावनानन्तरम् द्वितीयाङ्कवस्तुप्रारम्भाय उभयत्र कथांशं नियोजयितुं, तत्रभवान् कवीन्द्रः प्रवेशकं ददत् , विदूषकस्य मुखेन राज्ञो रहस्यं समुद्घाटयन्, राज्ञः शून्यहृदयत्वम् , हृदयनिहिताभीप्सितभारसमाक्रान्तत्वम् , अन्यनारीसंक्रान्तचित्तत्वमभिलक्ष्य देव्या महिष्या काशिराजतनयया प्रेरितायाः चेट्याः निपुणिकायाः राजरहस्यं अवगन्तुं विदूषकमनुसन्धातुं प्रयत्नं, तत्र च विजयं समाख्यापयन्, विदूषकस्य उर्वश्यामप्सरसि निहितमनस्कत्वरूपे राजरहस्ये समुद्घाटिते काशिराजदुहितरं प्रति “परिश्रान्तोऽस्म्यैतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुं, यदि भवत्या मुखकमलं प्रेक्षिष्यते तदा निवर्तिष्यत इति" चाटुपूर्वकं कथनमभिसन्धाय, मध्याह्नसमयनिवेदकस्य वैतालिकस्य प्रवेशेन राज्ञः सवितृसदृश-