सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तेजोवत्त्वं व्यञ्जयित्वा, माध्याह्नविरामवेलां सूचयित्वा, विदूषकं च धर्मासनादुत्थितस्य महाराजस्य पार्श्वपरिवर्तिनं विधाय, सविदूषकस्योत्कण्ठितस्य राज्ञः प्रवेशमवगमय्य, नाटकीयवस्तुनि मुखसन्ध्यनन्तरं गर्भसन्धि समुल्लासयितुं यतमानः सामाजिकानां चेतांसि समाराध्दुं प्रचक्रमे ।

 अत्र च तत्रभवान् नृपतिः नर्मसचिवस्य वयस्यविदूषकस्याग्रे अनङ्गभङ्गोऽपि प्रदर्शिताङ्गभङ्गः आदर्शनात् सुरसुन्दरीप्रवेशं हृदये गाढतरं विज्ञाप्य, विदूषकस्य मुखात् काशिराजपुत्र्याः खिन्नत्वं निशम्य, अभ्यर्थ्य च रहस्यनिक्षेपरक्षणाय, वयस्यस्य निपुणिकया वञ्चितोऽस्मीति मनसि विचारयतः मौनमभिवीक्ष्य कथं तूष्णीमास्ते भवानिति पृच्छति । स्वसंयतजिह्वत्वं प्रकाशयति विदूषके, मनोविनोदमलभमानः बुभुक्षितस्य विदूषकस्य महानसगमनप्रस्तावमस्वीकृत्य , उपस्थिते तु विदूषककृते उर्वशीदर्शनविषयके प्रश्ने तत्रभवत्याः प्रत्यवयवमशक्यवर्णनायोग्यत्वम् निवेदयति । तथापि कुतूहलिने विदूषकाय तत्रभवतीं स्वमनोमन्दिरस्वामिनीं उर्वशीं आभरणस्याभरणम् उपमानस्योपमानं इति समासेन वर्णयन्नभिनन्द्य च “अत एव दिव्यरसाभिलाषिणा त्वया चातकव्रतं गृहीतमिति” सोपहासं वचनम् , मत्वा च विविक्तं विहायोत्सुकस्य नान्यच्छरणं, समाज्ञापयति विदूषकम् मञ्जुवञ्जुलतरुपुञ्जशोभासन्दानितस्य मन्दसुगन्धसमीरणशिशिरस्य मनोमोहकस्य प्रमदवनस्य मार्गमादेशयितुम् । तत्र च विदूषकः इत इतो भवानिति राजानं प्रमदवनमार्गमादिशन्' कञ्चित्कालं परिक्रमणानन्तरम् प्रमदवनपरिधिं प्रेक्ष्य “एष प्रमदवनपरिसरः अत्र च भवानतिथिरिव दक्षिणमारुतेन प्रत्युपगत" इति सविनयं विज्ञापयति । राजा च प्रमदवनश्रियं विलोक्य विविधा लताः कुसुमैः सनाथयन्तं वायुं कामिनमिवोपवर्ण्य मधुरमनोहरप्रमदोपवनप्रवेशपरो विदूषकेण सह प्रवेशं नाटयति । तत्र च राजा उद्यानस्थमन्दानिलविहारं भृशमुद्दीपकमनुभूय स्रोतसि प्रतीपतरणमिवोपवनप्रवेशं दुःखावहममंस्त । विदूषकश्चैनमर्थमनवगाहमानः कथमिवेति पृच्छन् राज्ञा मे मनः आदावेव अलभ्यवस्तुबद्धाभिनिवेशं पुष्पधन्वा कृशीकरोति, पुनश्च उपवनरसालैः साङ्कुरैः दृष्टिविलोभनैः बहु पीडितोऽस्मीति विज्ञापितः सन् अलं परिदेवनया तवाङ्गसुखमनङ्ग एव लघु सम्पादयितेति मङ्गलमाशासन् 'प्रतिगृहीतं ब्राह्मणवचनमिति, सम्मानितः राज्ञा सह परिक्रामते । भ्रमंश्चात्र तत्र वसन्तावतारसूचितां कमनीयतां प्रमदवनस्य राज्ञः विचारपथमवतारयति, राजा च सर्व निपुणमवलोकअन् श्यामं कुरबकं, मेदोन्मुखं बालाशोकं, नवां रसालमजरी उपवर्णयन् मणिशिलापट्टसमेते माधवीलतामण्डपे उपवेष्टुं प्रार्थितः तथा कुर्वन् इहासीनः ललितलतालोभ्यमानलोचनः प्रियागतामुत्कण्ठां विनोदयेत्युपश्लोकितः दीर्घं निश्वस्य तदङ्गनाबद्धसक्ति अनशमन्थरं मे नयनयुगं कुसुमितास्वपि उपवनलतावधूषु धैर्यं न धारयति इत्याचक्षाणः वाञ्छितलाभाय उपायं कञ्चन शोधयितुं प्रियवयस्यं प्रेरयति ।

 एवं तिष्ठति मदनोत्सुके राजनि चित्रलेखयानुगम्यमाना उर्वशी प्रविशत्याकाशयानेन । प्रियसखीविचारमजानती चित्रलेखा, क्व प्रस्थितासीति पृच्छन्ती हेमकूटशिखरे लताविटपलग्नां वैजयन्तीं मोचयितुं प्रवृत्ता त्वम् सोपहासं दृढं खलु लग्ना