पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

परिज्ञाय विह्वलां चित्रलेखां पीवरपयोधरस्थमन्दारकुसुमदाम्ना संसूच्यमानं हृदयकम्पं दर्शयन् राजा "बलवच्च ते सखी परित्रस्ता-" इति सकम्पमुर्वशीतनुं प्रेक्षमाणः आत्मानमनुग्राहयामास । एतावतैव कालेन स्निग्धं निध्यायन् राजा आपन्नां तां प्रकृतिमापन्नां परिज्ञाय सहर्षं चित्रलेखां दिष्ट्या वर्धसे इत्यभ्यनन्दयत् । संज्ञा प्राप्नुवानां प्रियसखीं विश्रम्भयितुं, प्रकटयितुं च कृतज्ञतामुपकारिणे पार्थिवाय चित्रलेखा "आपन्नानुकम्पिना महाराजेन प्रतिहतः खलु दानवा-" इति समाश्वासयितुं प्रचक्रमे । समुन्मील्य नयने च "किं महेन्द्रेणाभ्युपपन्नास्मि-" इति जातशङ्का महेन्द्रसदृशानुभावेन राजर्षिणा पुरूरवसेति विज्ञाप्यमाना राजानं स्निग्धमधुरैः विलोकनैः प्रत्युपकुर्वन्तीव दानवेन्द्ररक्षणेन महाराजेन बहूपकृतमिति स्वीयां कृतज्ञतामात्मनि प्रकाशयमाना सविस्मयं स्थिता । राजा च स्वात्मनि इमां रमणीयललनाललामभूतां रमणीं विलोक्य महर्षिं नारायणं विलोभयन्तीनां देवाङ्गनानां सलज्जत्वं युक्तमाशंसमानः, प्रशंसन्नतनुकोमलतनुं तामर्हणीयस्वभावाम् अत्यन्तमन्तःपुरविहारक्षमामक्षमामसुरसम्भ्रमस्य विचार्य, तदुत्पादके जातशङ्कः तस्याः प्रजापतित्वेन चन्द्रमसं कान्तिकोषं अथवा शृङ्गारसान्द्रं मदनं, तन्मित्रं माधवं वा परिकल्प्य, सन्देहदोलायमानचेताः विस्मृतात्मा तत्रैव नितरामरज्यत । क्व मे सखीजनः इति चित्रलेखां पृच्छन्ती “नाहं जाने, प्रियसखि ! अभयप्रदायी महाराजो जानातीति" लब्धोत्तरा, राज्ञा च "त्वद्दर्शनसफलयोर्यस्य नयनयोः पन्थानं सकृदपि त्वं यदृच्छयावतीर्णा सोऽपि त्वद्विरहेण समुत्सुको भवेत् तदा नाम कीदृशीमवस्थां प्रतिपद्येत ते सखीजन" इति सहचरीणां सविषादत्वं विज्ञापिता उर्वशी हृद्येव हृद्यं राज्ञो मधुरालापपाटवं भृशं प्रशंसन्ती “अत एवार्द्रसौहृदं सखीजनं प्रेक्षितुं त्वरते मे हृदयमिति” प्रत्युत्तरप्रदानसन्मानेन राजानं कृतार्थतामनयत् । राजा च हेमकूटस्थिताः सख्यः त्वन्मुखं उपरागान्ते चन्द्रमिव द्रष्टुमुत्सुकाः सन्तीति हस्तेन दर्शयति। सा च किं प्रेक्ष्यते इति अजानतीं 'चित्रलेखां प्रणयिजन इति उत्तरं तत्र च सचित्रलेखां प्रियसखीमुर्वशीं गृहीत्वा समुपस्थितं राजानं मेनकां दर्शयन्ती रम्भा, प्रियसख्याः प्रत्यानयनम् राज्ञश्च अक्षतशरीरत्वम् इति द्वयमपि सुप्रतिपन्नमिति मेनकया दत्तप्रत्युत्तरा समुत्पन्नकुतूहला अतिष्ठत् । अन्यत्र च राजा शैलशिखरं दृष्ट्वा सूतं रथमवतारयितुमाह । उर्वशी च रथावतस्पोकन्यक्षोमेन भीता राजानमवलम्बते; राजा च आयतेक्षणायास्तस्या अङ्गेनाङ्गसंस्पर्शजन्यसुखं प्राप्य आत्मानं धन्यं मन्यमानः स्वविषयावतारं सफलं मनुते । पश्चात् अन्या अप्सरसः दृष्ट्वा राजा सारथिं रथमुपश्लेषयितुमाह यतः समुत्सुकः सखीजनः प्रियसखीमुर्वशीं सम्भावयतु। अप्सरसः विजयिनं राजानं मधुरालापेन जयशंसनेनामिनन्दयन्ति । ततः सर्वाः सख्यः प्रियसखीमुर्वशीं दृढमालिङ्गन्ति ।

 अत्रान्तरे सूतः गगनमार्गे चित्ररथं पश्यति । तश्चावलोक्य अप्सरसः विस्मितां भवन्ति। प्रविश्य चित्ररथः महेन्द्रोपकारपर्याप्तेन विक्रममहिम्ना वर्धते भवानिति नायकं अभिनन्दयति । राजा च तं स्वागतं ब्रूते, चित्ररथश्च केशिना हृतामुर्वशीं नारदमुखेनावगत्य महेन्द्रेण गन्धर्वसेना प्रहिता, किन्तु मध्य एवाहं भवतो जयोदाहरणं