५२
तोऽयं वर्षः साहित्यविश्वस्मिन् प्रोच्चैः पदं लम्भित इति नास्ति केषामपि विवादास्पदम् ।
तत्रभवतः कालिदासस्य कवित्वं पाण्डित्यं च
तत्रभवतो महाकवेर्जीवनं निश्चयेन परिचेतुं यथा न पार्यते, इदमपि तथैव वक्तुमशक्यमेव यत् क्व तावत्तत्रभवतोऽध्ययनं, क्व वा बाल्येऽवस्थानं कश्च कविशेखरस्य गुरुरिति ।
विषयेऽस्मिन् विहिते तु गवेषणे प्रहिते वा लोचकलोचने तदीयप्रणीतग्रन्थाभ्यसनेन तदन्तर्गतानि नैकविधतन्त्रपरिचयनिदर्शनानि लभ्यमानान्येव प्रमाणत्वं प्रेक्षावतां भजेयुः। उपायान्तराभावपारवश्यात् अमुष्मिन् क्षोदक्षमे क्षेत्रे विचक्षगैर्महाकवेः प्रणीतत्वेन विद्वद्भिरङ्गीकृता ग्रन्थास्त्रिषु विभागेषु समालोचनसौकर्यान्निक्षिप्ताः। तत्र श्रव्यकाव्यानि कानिचित् महाकाव्यखण्डकाव्यरूपाणि, पराणि दृश्यकाव्यानि ततोऽवशिष्टानि प्रकीर्णकानीतराणि खलु काव्यानि । तत्र प्रथमकक्षावपतितानि महाकवेः कुमारसम्भवरघुवंशौ महाकाव्ये, खण्डकाव्ये च मेघदूतार्तुसंहारकाव्ये, द्वितीये च मालविकाग्निमित्रविक्रमोर्वशीयाभिज्ञानशकुन्तलाभिधानानि रूपकाणि, प्रकीर्णकेषु तदीयनिबन्धेषु शृङ्गारतिलक-पुष्पबाणविलास- श्रुतबोधज्योतिर्विदाभरणप्रभृतीनि रचनान्यभिमन्यन्ते ।
एतेषां च सम्यक् पर्यालोचनेन सहृदयैर्नूनमनुभूयते यन्महाकवेर्लेखनी नितान्तं रसस्रोतोवहाऽध्येतॄणां सविशेषं हृदयाह्लादिनी विदुषां विश्वमखिलं कविवरस्यानुपमेन यशसा धवलयतितराम्।
प्राकृतिक-सौर्न्दयवर्णनम्
कविवरेण्यस्तत्रभवान् कालिदासः साहित्यसौन्दर्यनिर्माणे रसधाराप्रसविणीप्रवाहसुमधुर-नाटकीयकृतिचातुर्ये च निरुपमो बभूवेति सर्वसम्मतम् । किन्तु किमधिकृत्यैतादृशो बहुमान इति त्ववश्यं विवेचनीयम् । प्राकृतसौन्दर्यवर्णने सूक्ष्मदर्शित्वे च कविकुलगुरोः स्वाभाविकोऽतिशयः। स च तत्र तत्र काव्येषु नाटकीयवस्तुषु च बहुशः परिदृश्यते । विक्रमोर्वशीयेऽपि-----
"अग्रे यान्ति रथस्ये” (१-५ पृष्ठ १३) तिपद्ये सवेगं गच्छतो रथस्य, तदुध्दूतधूलिपटलस्य अरावलिचक्रयोः चामरस्य, ध्वजपटस्य च प्रत्येकं जवातिशयमहिम्ना कीदृशी स्थितिः बभूवेति वर्णना कालिदासस्य सूक्ष्मदर्शित्वं, प्रकृतिभावसौष्ठवप्रदर्शनपटुत्वं च सम्यङ् निदर्शयति । द्वितीयेऽङ्केऽपि- 'अग्रे स्त्री नखपाटलं कुरबकं (७ पृष्ठ ५५), "उष्णार्तः शिशिरे" (२२ पृ. ९८) इति पद्ये मध्याह्नवर्णनम् ; तृतीयेऽङ्के 'उत्कीर्णा इव वासयष्टिषु' (२ पृ. १०६) “उदयगूढशशाङ्कमरीचिभिः" (६ पृ. ११०); चतुर्थेऽङ्के “विद्युल्लेखाकनकरुचिरं" (१३ पृष्ठ १६८); “तरङ्गभ्रूभङ्गा" (५२ पृ. २००); पञ्चमेऽङ्के च-- नारदस्य जङ्गमकल्पवृक्षत्वेन वर्णनम् (१९ पृ. २५१) सर्वमप्येतत् कालिदासान्तःकरणे प्राकृतिकसौन्दर्यविषये आदरातिशयः प्रेमातिशयश्चासीदिति विशदीकरोति ।