पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५१

तादृशपक्षपातस्य "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी"ति भावप्राबल्याभावेऽदर्शनस्य निश्चितत्वादस्य कविकुलालङ्कारस्यावन्तिकत्वकल्पनमनलीकतरङ्किल।

 तत्रभवतो जीवनम्-यथा हि कविवरेण्यः कतमस्मिन् काले वर्षमिमं जन्मनालमकार्षीदिति सन्देहदरीमेवाधिष्ठितं वस्तु तथैव कतमं च कुलं कीदृशं च प्रदेशं कौ च पितरौ कविरत्नमिदं जन्मना सभाजयमासेति विदुषामद्यावधि नाभूदतिरोहितम् । बहवश्व तावत् प्रसन्नाः प्रसन्नतराश्च तर्काः पूर्वपूर्वतरतर्काप्रतिष्ठाप्रयोजकाः धीमद्भिरक्रियन्त तथापि ऐतिह्यधिया नास्ति किमप्यस्मिन् विषये निश्चप्रचम् । केचन विद्वांसो मन्वते यदयं काश्मिरिकः सन् स्वबाल्यावस्थायामेवेतस्ततः भ्रमन् नैकजनपदेभ्यो गच्छन् अवन्तिकां प्राप तत्रैव स्वीयकाव्यकलागौरवेण महाराजविक्रमस्य सभायां प्रवेशं स्थानं च लेभे परं च तत्र नैकविद्वन्मण्डलीमण्डितपरिगोष्ठीषु स्वपाण्डित्यं स्थाने प्रकाश्य नवरत्नान्यतमत्वमार, प्राप्त च महाराजाश्रयेण महतीं कीर्तिम् । अपरे च वदन्ति यदयं महाकविः पुरा कौमारेऽतीव जडमतिर्बभूव । तस्य च पत्नी सुतरां मनोरमा सती स्वधवस्यासक्तिवशात् तस्मै महताधिकारेण प्राभवत् । तदीयमूर्खत्वेन खिन्नायां एकदा पितरं गतवत्यां तस्यां, तदीयविरहदूनमानसः, तस्या भीतः तां प्रति जिगमिषुरपि गन्तुमनुत्सहमानः भवगतीं देवीं कालीमुपास्त, तदीयप्रसादमहिम्ना सारस्वतं निधिमवाप, तादृशीं च प्रतिभामलभत । लब्ध्वा चाभीष्टं वरं सः श्वशुरालयं गत्वा द्वारि तिष्ठन् शृङ्खलानादमकरोत् । उद्घाटनायागतायां स्वप्रेयस्यामाह महाकविर्यदनावृतकपाटं द्वारं विधेहि । परिचित्य च वाचं सा तं पप्रच्छ यद्, “अस्ति कश्चित् वाग्विशेषः । तद्वाचमुपश्रुत्यास्तीति स्वप्रेयस्या वाक्यस्य एकैकं पदमादाय काव्यत्रयं कविना निरमायि, तद्यथा अस्त्युत्तरस्यामिति कुमारसंभवमहाकाव्यम् , कश्चित् कान्तेति खण्डकाव्यम्, वागर्थाविति रघुवंशं नाम पुनर्महाकाव्यमेव । एवं स मूढः कान्तायाः कान्तोपदेशवशात् महाकवित्वं प्रापदिति । अन्ये विपश्चितः प्रकल्पन्ते यदयं धाराधीशस्य भोजदेवस्य सखा तत्र च तदीयसभायाः कविवरेण्योऽयमिति च, यद्विषयिण्यो नैकाः कथा भोजप्रबन्धादिषु लभ्यन्ते । किन्तु यद्ययं प्रथमशताब्दीयस्तदा भोजदेवसमकालो भवितुं नार्हति ।

 एवमेतादृशि सन्देहतिमिरतिरोहिते चरिते तदीये केवलं कल्पनमेव कल्पश्चेदनल्पं तथ्यमिदं प्रतिभाति यदयं कविर्जात्या विप्रः सन् शैवो बभूव । अयं काश्मीरिको वाऽवन्तिको वा तथाप्ययं प्रभूतं स्वजीवनमुजयिन्यामनैषीत् परश्चोत्तरभारतेऽयं बहुतिथं बहुधा प्रावात्सीत् । महाकालचरणयोः क्षिप्रातरङ्गिण्याश्च विषये तदीयामेतादृशी भक्तिमनुभवता केनापि तस्यावन्तिकत्वं न शङ्क्येत । अपि चेदमनुमीयते यदनेन महाकविना क्वचिदपि दारिद्द्र्यदुःखं नान्वभावि । युक्तमेवाह कश्चन दरिद्रः "एकोऽपि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे। नूनं न दृष्टं कविनापि तेन दारिद्द्र्यदोषो गुणराशिनाशी"। एवं हि सरस्वतीविलासभाजापि महाकविना इतस्ततः स्वप्रतिभयानेकराजन्यबद्धसख्येन सुखेन कालं यापयता भार-