पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५०

 (३) अपि च ज्योतिर्विदोऽपि रामचन्द्रविबुधप्रवरा रघुवंशे "प्रससादोदयारम्भः कुम्भयोनेर्महौजसः” इति वाक्यमाश्रित्य मेघदूते च "आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं" "प्रत्यासन्ने नभसि" च "शापान्तो मे भुजगशयना"दित्यादिपद्यकदम्बेनोपस्थापितेन क्रमेण भगवति गभस्तिमालिनि पुष्यभस्य प्रथमं पादमधिरोहत्येव नभोमासस्य प्रक्रमस्तदानीमभवदिति निश्चिन्वन्ति, मन्यन्ते च यदेतादृशोपक्रमस्तु इदानीन्तनात्कालादष्टशताधिकसंवत्सरसहस्रादूर्ध्वं न भवितुं क्षमोऽतस्तादृशस्य वस्तुनो वर्णनात्कालिदासस्य प्रथमाब्दशतके वर्तमानत्वं सिद्ध्यति ।

 (४) परं च विदिशाविशांपतेरग्निमित्रस्य नाटकीयवस्तुनायकत्वेन स्वीकृतौ महाकवेराशयस्तदानीं ख्रिष्टीयाब्दाच्च पूर्ववर्तिनि काले पुष्यमित्रवसुमित्राग्निमित्राणां तत्कृताश्वमेधादीनामाख्यानस्य च ख्यातत्वात्तदानीन्तनानां स्पृह्यमाणत्वात् तादृशस्यैव वस्तुनः काव्यव्यापारस्याधारत्वेन स्वीकारस्तु कविसम्प्रदायानुरोधी प्रतिभातीत्यतो महाकविः ख्रिष्टाब्दप्रारम्भात्पूर्वतन एव । अमुष्मिन् विषये कविसम्प्रदायस्तु सूक्त एव जयानकेन “परीक्षकाणां रुचिमाकलय्य प्रकाशनीयः कविताप्रकर्षः । असात्विकां हि प्रकृतिं विलोक्य तीक्ष्णोऽभ्युपायो भिषजा न योज्यः" इति

 (५) अपरं चोरगाख्यपुरस्य नाथमिति पाण्ड्यराजमुपवर्णयतो महाकवेः कालः पाण्ड्यवंशीयानां प्रतापवर्णनेनानुमीयते यत्सः प्रथमे शतके ख्रिष्टजन्मनः पूर्वमेवाभवत् यतः प्लिनिटॉलमीप्रमुखैरैतिह्यकोविदैरिशवीयप्रथमद्वितीयाब्दशतके पाण्ड्यानामपचीयमानं महिमानं ख्यापयद्भिश्चोलानां तदा प्रभुत्वं व्यज्ञापि ।

 (६) यच्च कालिदासीयभावगाम्भीर्य्यमनुभवद्भिस्तस्य दार्शनिकत्वं च जानद्भिरश्वघोषकालिदासयोः काव्यव्यापृतौ प्रभूतं साम्यमाकलयद्भिर्विद्वद्भिः समीचीनमेव तर्क्यन्ते यत्कालिदासाश्वघोषोपजीव्यस्तत्पूर्ववर्ती नूनमेवेशुमशीयजन्मनो नाक्तिन इति।

 (७) महाकविना कालिदासेन विरचितोऽयं ग्रन्थ इति लब्धप्रख्ये ज्योतिर्विदाभरणे "स्मदेशाधिपते"र्नोल्लेखः समुपलभ्यते। अयं च प्रसिद्धो रूमदेशाधिपो जूलियस सीझर इति विवादशून्यमेवातो जूलियससमकालीनोऽयं महाभागो यत्र कुत्रचिदपि पञ्चपञ्चाशद्वर्षपूर्वमिशुमशीयजन्मनोऽभूदिति निश्चप्रचं बहूनां मते ।

 अस्य वास्तव्यम्-अमुष्मिन्नपि विषये प्रेक्षावतामभिप्राये प्रायो महान् विवादः । कालिदासं तादृशं महामहिमशालिनं विद्वांसं परिज्ञायाऽऽत्मनः प्रान्तीयधिया विद्वांसः स्वस्वभारतभूभागमलङ्कुर्वाणं महाकविमामनन्ति यथा वङ्गीयाः स्वयं कालीदासाः कालिदासं वङ्गीयं विधाय नदियावास्तव्यं निश्चित्यात्मनो गौरवं ख्यापयन्ति । परे काश्मीरिकाः महाकविं बाह्लीकजमित्यभिमन्यन्ते किन्तु तादृशार्थनिगमनं प्रायो नैकान्तिकमेव, यतः कालिदासीयकाव्यरचनानां निटिलं निभालनेनेदं विचारसहत्वमाप्नोति तत्त्वं यद्येन केनापि हेतुना महाकवेः श्रीविशालायामवन्ति- कायां च सप्रश्रयो महान् पक्षपातो दरीदृश्यते। उज्जयिन्या विशालानां हर्म्याणां तत्रत्यनदीनिर्झराणां, कुटिलाक्षिविक्षेपदक्षाणां रमणीनां च बहुधा बहुशो वर्णनात् ।