पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३४

विव तस्थतुः। एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा । सहायकार्थमाहूतो ययौ नाकं पुरूरवाः । तत्र तस्मिन्हते मायाधरनाम्न्यसुराधिपे। प्रवृत्तस्वर्वधूसार्थः शक्रस्याभवदुत्सवः । ततश्च रम्भा नृत्यन्ती आचार्ये तुम्बुरौ स्थिते। चलिताभिनयां दृष्ट्वा जहास स पुरूरवाः । जाने दिव्यमिदं नृत्तं किन्त्वं जानासि मानुष। इति रम्भापि तत्कालं सासूयं तमभाषत। जानेऽहमुर्वशीसङ्गात्तद्यद्वेत्ति न तुम्बुरुः। युष्मद्गुरुरपीत्येनामुवाचाथ पुरूरवाः । तच्छ्रुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत् । उर्वश्या ते वियोगः स्यादाकृष्णाराधनादिति । श्रुतशापश्च गत्वैव तमुर्वश्यै पुरूरवाः । अकालाशनिपातोग्रं स्ववृत्तान्तं न्यवेदयत्। ततोऽकस्मान्निपत्यैव निन्ये क्वाप्यपहृत्य सा। अदृष्टैस्तेन भूपेन गन्धर्वैरुर्वशी किल । अवेत्य शापदोषं तं सोऽथ गत्वा पुरूरवाः। हरेराराधनं चक्रे ततो बदरिकाश्रमे । उर्वशी तु वियोगार्ता गन्धर्वविषयस्थिता । आसीन्मृतेव सुप्तेव लिखितेव विचेतना। आश्चर्यं यन्न सा प्राणैः शापान्ताशावलम्बिनी मुक्ता विरहदीर्घासु चक्रवाकीव रात्रिषु । पुरूरवाश्च तपसा तेनाच्युतमतोषयत् । तत्प्रसादेन गन्धर्वा मुमुचुस्तस्य चोर्वशीम् । शापान्तलब्धया युक्तः पुनरप्सरसा तया । दिव्यान्स राजा बुभुजे भोगान् भूतलवर्त्यपि ॥ (कथा. १५-४-३०)

 सर विलियम विल्सनमहोदयानां मते तु सर्वमिदं नाटकीयं वस्तु अन्योक्तिपरमेवास्तीति कल्पितम् तद्यथा-नायकस्त्वत्र सूर्यः नायिका च उषा विद्यते । कतिकालं उभौ संयुक्तौ भवतः पश्चाच्च वियुज्यते। केवलं रविरेव नदीकूपतडागवृक्षपर्वतेषु एकाकी परिभ्रमति पश्चाच्च दिनावसाने उषसा संयुक्तो भवतीति ॥

 एवञ्च ऋग्वेदपद्मविष्णुमत्स्यपुराणबृहत्कथादिविविधानां ग्रन्थानामालोचनेन स्फुटतयेदमवभासते यत् अस्य त्रोटकस्य कथाप्रबन्धः पुरातनः सन् विद्वत्सु प्रसिद्ध एवास्ते । तथा चैतेषां ग्रन्थानां परिशीलनेन सिद्धमेवेदं यत् पुरूरवाः नाम कश्चन चन्द्रवंशीयो राजा बभूव । तस्य प्रतिष्ठानाख्या नगरी राजधानी । स परमधार्मिकः अच्युतचरणसेवापरायणश्च अभूत् । तस्य इन्द्रेण सह महत्सख्यम् । तत्रेन्द्रसभायां प्रत्यहं गच्छता राज्ञोर्वशी दृष्टा । तत्र पारस्परिकावलोकनेनोभावपि कामस्य वश्यतां प्राप्तौ । ततो महेन्द्रप्रसादात् उर्वशी राज्ञा लब्धा । पश्चात्केनापि कारणेन, कस्यापि शापेन, उत नग्नदर्शनेन तयोर्वियोगः सञ्जातः । पश्चात् उभयोः विरहवेदनाखिन्नत्वात् देवतानां प्रसादात् संयोगः सञ्जातः । तेनाजन्मसुखेनोभाभ्यामेव पृथिव्यां कालो यापितः। उर्वशीगर्भसम्भूता राज्ञः अष्टौ पुत्रा आसन् । तेषु ज्येष्ठः आयुर्नाम । पुरूरवसोऽनन्तरं स एव राज्येऽभिषिक्त इति एतावान् कथांशः सर्वत्र सामान्यः । यद्यप्येतावत् कथावस्तु समानतया सर्वत्र लभ्यते तथापि कवीन्द्रेण कालिदासेन अस्यैव वस्तुनः नाटकोपयोगित्वं, सहृदयहृदयाह्लादकत्वं, कविताचातुरीनिधित्वम् सर्वाङ्गसुन्दरत्वं यथा सम्पद्येत तथा किञ्चित् परिवर्तनं स्थाने स्थाने कृतम् । तत्र प्राधान्येन वक्ष्यमाणाः कतिचित् विपर्ययांशा अधस्ताद्दीयन्ते ।

 (१) आदौ राज्ञः सूर्योपस्थानन्निवृत्तस्यैव आक्रन्दनाकर्णनेन समाकृष्टस्य, केशिना हृतया तेन च समुद्धृतया उर्वश्या संयोगः सञ्जातः। पुराणेषु तावत् क्वचिदिन्द्रसभायां, क्वचिन्नन्दनवने तयोस्संयोगो जात इत्युपनिबद्धम् ॥