३५
(२) राज्ञः औशीनर्या सह उर्वशीप्रेम्णः अर्वागेव उद्वाहः । पुराणादिषु औशीनरी राज्ञः पट्टाभिषिक्ता महिषीति कुत्रापि न दृश्यते। हरिवंशे तु राज्ञः उर्वशी एव अनन्या प्रणयिनी बभूवेति प्रोक्तम् । यद्यपि महाभारते आदिपर्वे (१०६।२२) "उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः। दुहिता प्रथिता लोके मानुषे रूपसंपदा" इति प्रोक्तम् तथापि तस्याः पुरूरवसा विवाहसम्बन्धोऽभूदिति न कुत्रचिल्लभ्यते । अस्मिन् रूपके राज्ञे औशीनर्या कृतया अभ्यसूयया द्वितीयतृतीयाङ्कयोः नाट्यवस्तु परमुपस्कृतम् । इदन्तु कवेः प्रतिभोत्थितमेव प्रतिभाति ।
(३) उर्वश्यै शापोऽत्र भरतेन दत्तः तथा च पुराणेषु क्वचन भरतेन क्वचन तुम्बुरुणा, क्वचन मित्रावरुणाभ्यामिति कथितम् ।
(४) पुराणेषु उर्वश्या वियुक्ते राजनि क्वचन हरिणा, कचिद्गन्धर्वैरनुग्रहः कृत इति दृश्यते किन्त्वत्र महेन्द्रेणेति लभ्यते ।
(५) क्वचित् उर्वशीपुरूरवसोः सालोक्यावधि आवस्त्रहीनदर्शनं उद्दिष्टा, अन्यत्र च केवलं गन्धर्वैर्हरणमेव, किन्त्वत्र आकुमारमुखदर्शनमुक्ता ।
(६) राज्ञश्च पुराणेषु पिशाचत्वं उर्वश्याः लतात्वं यद्यपि प्रतिपादितम् तथापि तयोः पुनर्मेलनं सङ्गममणियोगेन जातमिति न क्वापि लभ्यते ।
(७) तथा च कुमारस्य सत्यवतीहस्ते निक्षेपः, सङ्गममणिं हरतः गृध्रस्य तेन तस्माच्च च्यवनस्य सत्यवत्यै निक्षेपनिर्यातनायादेशः, सर्वमिदं कविप्रौढोक्तिसिद्धं नवीनमेवास्ति।
(८) तथा च पुराणेषु राज्ञा उर्वश्याः मर्त्यलोके आनयनम् प्रतिपादितम् , न तु तस्याभिसारिकात्वम् ।
(९) अपि च पुराणेषु राजानं चरमावस्थायाम् प्रियतमाविश्लेषव्यथादूनमेवात्रावधीकृत्य कथा समाप्तिमाप्ता किन्तु भारतीयसहृदया एतादृशं शोकपरिणामिनं दृश्यकाव्यं प्रेक्षितुमभ्यस्ता न सन्ति, इत्येवमुद्दिश्य कविना इयमापत्तिः समुद्धृता । कुमारस्यायुषो मुखदर्शनान्तरं भाविनं विप्रयोगं परिज्ञाय कुमारं राज्येऽभिषिच्या वनगमनाय कृतधियं राजानं महेन्द्रसन्देशं श्रावयितुं नारदस्य प्रवेशः कविनाकारि। तत्र च काव्यमिदं सुखपर्यवसायिनं कर्तुमीहमानेन कर्त्रा जन्मपर्यन्तमियमुर्वशी त्वत्सहधर्मचारिणी भवत्विति राजानं सुखमयमादेशं निशामयितुं, कुमारस्य यौवराज्येऽभिषेकाय, नायकयोरीप्सितसम्पादनाय, भरतवाक्यस्यान्तिमस्य कथनाय च नारदप्रवेशं विधाय सुजनमानसप्रमोदजनकं सर्वं सुस्थं सम्पादितम् तत्रभवता कविप्रौढेन स्वीयनाटकीयकलाकौशलप्रावीण्येनेति ।