पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३३

नीयमानामथाम्बरे। केशिना दानवेंन्द्रेण चित्रलेखामथोर्वशीम् । तं विनिर्जित्य समरे विविधायुधपातनैः।बुधपुत्रेण वायव्यमस्त्रं मुक्त्वा यशोऽर्थिना । पुरा शक्रोऽपि समरे येन वज्री विनिर्जितः। मित्रत्वमगमत्तेन प्रादादिन्द्राय चोर्वशीम् । ततः प्रभृतिमित्रत्वमगमत्पाकशासनः । सर्वलोकातिशयितं पुरूरवसमेव तम् । प्राह वज्री तु सन्तुष्टो नीयतामियमेव च। सा पुरूरवसः प्रीत्यै चागाच्चरितं महत् । लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम् । मेनकां चोर्वशीं रम्भां नृत्यध्वमिति चाऽऽदिशत् । ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी। सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता । विस्मृताऽभिनयं सर्वं यत्पुरातनचोदितम् । शशाप भरतः कोपाद् वियोगात्तस्य भूतले । पञ्चपञ्चाशदब्दानि लताभूता भविष्यति । पुरूरवाः पिशाचत्वंतत्रैवाऽऽप्तो भविष्यति । ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरम् । शापानुभवनान्ते तु उर्वशी बुधसूनुना। अजीजनत्सुतानष्टौ नामतस्तान्निबोधत। आयुर्दृढायुर्वश्यायुर्धनायुर्वृतिमान्वसुः । दिविजातः सुबाहुश्च सर्वे दिव्यबलौजसः ॥ इत्यादि" (पद्मपुराणे प्रथमे सृष्टिखण्डे यदुवंशकीर्तने द्वादशाध्याये ५१-८७)॥

 हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह । प्रतिष्ठानेऽभिषिच्याथ स पुरूरवसं सुतम् । (मत्स्य. १२-१८) अनेन राज्ञः प्रतिष्ठानाधीशत्वं कल्प्यते । तथा च मत्स्यपुराणे यत्पाद्मे प्रोक्तं तदैवाक्षरशः प्राप्यते । (मत्स्य. २४-९-३३) तथा च मात्स्ये पुरूरवसः पूर्वजन्मवृत्तान्तमपि लभ्यते । यथा स पूर्वं मद्रदेशाधिपतिरासीत् राज्यभरं च सचिवेषु समारोप्य तपसे हिमाद्रिं जगाम तत्रैरावतीं नाम नदीं ददर्श। तत्र च तस्य अप्सरसां गणैः सम्मेलनं जातम् । तत्र गन्धर्वाप्सरोभिः राज्ञः संवादः, तत्र च स्वप्नदर्शनम् इत्यादि सर्वं पुरूरवसः आख्यानम् एकादश-द्वादश-चतुर्विशेषु अध्यायेषु तथा च पञ्चदशाधिकशतादध्यायात् विंशत्यधिकशततमाध्यायपर्यन्तं दत्तम्।

 कथासरित्सागरे च सप्तदशे तरङ्गे-आसीत्पुरूरवा नाम राजा परमवैष्णवः । अभूद्भुवीव नाकेऽपि यस्याऽप्रतिहता गतिः। भ्रमन्तं नन्दने जातु तं ददर्श किलाप्सराः। उर्वशी नाम कामस्य मोहनास्त्रमिवापरम् । दृष्टमात्रेण तेनाभूत्सा तथा हृतचेतना। यथा सभयरंभादिसखीचेतांस्यकम्पयत् । सोऽपि तां वीक्ष्य लावण्यरसनिर्झरिणीं नृपः। यन्न प्राप परिष्वङ्गतृषाक्रान्तो मुमूर्च्छ तत् । अथादिदेश सर्वज्ञो हरिः क्षीराम्बुधिस्थितः। नारदाख्यं मुनिवरं दर्शनार्थमुपागतम् । देवर्षे नन्दनोद्यानवर्ती राजा पुरूरवाः । उर्वशीहृतचित्तः सन् स्थितो विरहनिःसहः । तद्गत्वा मम वाक्येन बोधयित्वा शतक्रतुम् । दापय त्वरितं तस्मै राज्ञे तामुर्वशीं मुने। इत्यादिष्टः स हरिणा तथेत्यागत्य नारदः । प्रबोध्य तं तथाभूतं पुरूरवसमब्रवीत् । उत्तिष्ठ त्वत्कृते राजन् प्रहितोऽस्मीह विष्णुना। स हि निर्व्याजभक्तानां नैवापदमपेक्षते। इत्युक्त्वाश्वासितेनाथ स पुरूरवसा सह । जगाम देवराजस्य निकटं नारदो मुनिः। हरेर्निदेशमिन्द्राय निवेद्य प्रणतात्मने। उर्वशी दापयामास स पुरूरवसे ततः। तदभूदुर्वशीदानं निर्जीवकरणं दिवः । उर्वश्यास्तु तदेवासीन्मृतसंजीवनौषधम् । अथाजगाम भूलोकं तामादाय पुरूरवाः । स्वर्वधूदर्शनाश्चर्यमर्पयन्मर्त्यचक्षुषाम् । ततोऽनपायिनी द्वौ तावुर्वशी च नृपश्च सः । अन्योन्यदृष्टिपाशेन निबद्धा-