पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६६

(३५) "यथाहि कीदृशोऽपि पवनः वेणुं प्रविष्टः मधुरमेव क्वणति एवमेव कीदृशमपि वस्तु महाकवेः प्रतिभायामनुप्रविष्टं रसायत एव" इति पाश्चात्यविपश्चितां अभिप्रायः । महाकवेः काव्याध्ययनचुञ्चुभिः सम्यगालोचनीयमिदं मतम् ।

(३६) निसर्गवर्णने पटीयसी खलु कवेः परिपाटीति विषयमवलम्ब्य विरच्यतां नातिविस्तरो निबन्धः ।

(३७) तदानीन्तनां भारतीयां सामाजिकी व्यवस्थां मुकुरीकरोति कालिदासीयः काव्यकदम्बो न वेति सप्रमाणं लिखत?

(३८) मानवीयाभ्यन्तरभावोद्बोधने अनुपमा किल कवेर्लेखिनीति बिरुदमिदमवितथं इति प्रमाणीकुरुत।

(३९) रूपकेऽस्मिन् वस्तुकालयोर्वरीवर्तते विसंवादः इत्यालोचकानां प्रायोऽभिप्रायः, मतमिदमभिप्रेतश्चेत् कुत्र कथमिदमुपपद्यत इति ब्रूथ नो चेत् विसंवादस्थलानि उपन्यस्य भवतो वैमत्यबीजं तत्र तत्र संस्थापयत ।

(४०) अपि नाम महाकविः स्वीयरूपकेषु कालवस्तुस्थानरसानां संवादाय सुतरां प्रयतते? अपि एतादृशसंवादसंसाधनं सुरभारतीकवीनां सम्प्रदायोऽस्ति न वेति तौलनिकधिया समस्तमिदं वस्तु विविच्यताम् ।

(४१) त्रोटकेऽस्मिन् समेषामेव सन्धीनां उपन्यासोऽस्ति न वा? एवञ्चेत् तत्तत्स्थाननिर्देशपुरस्सरं सन्धयः तदवस्थाश्च स्थाने उपस्थापयितव्याः।

(४२) कीदृश्या वृत्त्या उपनिबद्धमिदं त्रोटकं तल्लक्षणं पुरस्कृत्य तद्गुणानुपस्थाप्य तल्लक्षणसमन्वयो विधातव्यः ।

(४३) का च रूपकेऽस्मिन् रीतिः? कीदृशी चास्य सङ्घटनेति सोदाहरणं प्रदर्शयत।

(४४) काव्येऽस्मिन् कीदृशः पाकः सहृदयानां रसचर्वणापदवीमधिरोहतीति साधु वर्णनीयः।

(४५) के च गुणाः प्राधान्येन काव्यस्यास्य परिपुष्णन्ति अभिख्याम् ? ते च पुना रीतिवृत्तिसंघटना अनुसरन्ति न वा, विमृश्य लिख्यताम् ।

(४६) विक्रमोर्वशीये खलु सन्ति केचनांशा अकालिदासीयाः परैश्चान्तरा योजिताः इति मन्वद्भिः कैश्चिद् संख्यावद्भिः भवतां अस्त्यैकमत्यं न वा? यदि भवेत्तादृशानि स्थलानि सकारणं निर्देष्टव्यानि ।

(४७) रूपकस्यास्य चतुर्थोऽङ्कः संगीतरागगतिविशेषमहिम्ना नायकोन्मादगरिम्णा च शाकुन्तलीयतुरीयाङ्कापेक्षया वरीयान् वरीवर्तत इति प्रेक्षावतां धीः, विषयेऽस्मिन् भवतामभिप्रायः समालोच्य प्रकाशनीयः।

(४८) महाकविना निर्मितेषु रूपकेषु पूर्वापरधिया विक्रमोर्वश्याः कालो निर्धारयितव्यः ।

(४९) महाकवेर्ज्योतिःशास्त्रपारदृश्वत्वं सङ्गीतकलाकुशलित्वं तन्त्रान्तरापरतन्त्रत्वं तदीयकाव्योदाहरणपूर्वकं साधयत ।