सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६५

(२५) नायकयोः रूपकेऽस्मिन् पूर्वरागे कीदृशो व्यवहारः, कथञ्चामुष्मिन् विषये स्थायी भावः पुष्यत इति सविस्तरं प्रदर्शनीयम् । परञ्च अस्यैव कवेः परेषु पूर्वरागेषु कीदृशी प्रोढिरित्यत्रत्यपूर्वरागप्रसङ्गनुलनया विवेचनीयङ्किल।

(२६) रूपकेऽस्मिन् कोऽङ्गी रसः कथञ्चाभिव्यज्यत इति प्रदर्शनीयम् । के च रसा अत्र गौणाः? यत्र कुत्रापि करुणो रसः त्रोटकेऽस्मिन् प्रतिभाति न वा? एवञ्चेत् कुत्र भवतीति विज्ञाप्यम् ।

(२७) रसोपबृंहणे त्रोटकेऽस्मिन् “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्रुते” इत्यस्य कविसमयस्य महाकविनाऽनुसरणं अङ्गीकृतं न वा, अत्र सम्भोगविप्रयोगयोः कीदृशी प्रचितिः, अपि विच्छित्तिं वा पुष्णाति सा? रूपकान्तरविप्रलम्भेन विहिते साम्ये क्व भवन्मते रसपरिपोषः समीचीनः सन् सहृदयहृदयं चमत्करोतीति रसगुणैरुपपादनीयम् ।

(२८) शापोद्घातेन कविवरेण्यस्य काव्येऽस्मिन् किं अभिप्रेतम् ? नाटकीयकलायां च कवयितुः शापोन्मेषप्रकारो गुणः प्रत्युत दोष एव इति सोपपत्तिकं समालोचनलोचनैरायुष्मद्भिर्विशदीकर्तव्यम् ।

(२९) "काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला" इति भणितिरणितप्रसृतिमसहमानैः कैश्चित् विक्रमोर्वशीयं त्रोटकं तदपेक्षया रुचिरतरं सद्वरीवर्तते इति मन्यते । समालोच्य तादृशं मतं भारतीयरूपकविश्वस्मिन् विक्रमोर्वश्याः पदं निश्चिनुहि ।

(३०) कतमस्मिन् काले भारतं वर्षं महाकविः कालिदासोऽलञ्चकारेति नैककोविदाभिप्रायोपन्यासपुरस्सरं विषयेऽस्मिन् सिद्धान्तं स्थापयत ।

(३१) महाकवेर्जीवनचर्यायाः विषये किं ज्ञायते भवद्भिः? समुपलभ्यमानेषु तदीयग्रन्थेषु तदीयजीवनस्य महाकवेश्चारित्र्यस्य वा कथमपि बिम्बानुबिम्बत्वं प्रसज्यते किमु ? अन्यथा वा ऐतिह्यविरहिणि भारतेऽस्मिन् देशे महाकवेः जीवनोदन्तं कथं लभ्येतेति निर्णेतव्यम् ।

(३२) महाकवेः कति ग्रन्थाः प्रसिद्धाः वर्तन्ते ? तत्कृतत्वेन ख्यातेषु काव्येषु कानि भवद्भिः तदीयानीत्यङ्गीक्रियन्ते? ग्रन्थाभ्यन्तरप्रमाणैः स्वमतं विशदीकुरुत।

(३३) महाकविरयं काश्मीरिक इति केचित् , बङ्गीय इति परे, मालवीयश्चेति बहवो मन्यन्ते । सिंहले च गत्वा महान्तं कालमनैषीत् इति केचित्, धाराधीशस्य च सखा इत्यपरे, परे च मन्यन्ते यत् विक्रमादित्यसभाया रत्नमभूत् कविः कालिदासः । एतादृशि विचिकित्सापदे कीदृशो भवन्मते सिद्धान्त इति सोपपत्तिकं निगन्तव्यम् ।

(३४) "उपमा कालिदासस्येति" प्रथितं आभाणकं रूपकस्यास्य पर्यालोचनया साधयितुं शक्यतेऽत्रभवता किमु ?