सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कतिपये प्रश्नाः

(१) कीदृशं दृश्यकाव्यं विक्रमोर्वशीयं नाम ? तल्लक्षणमुपन्यस्य तस्यास्मिन् काव्ये समन्वयो विधातव्यः ।

(२) कीदृशं प्राकृतिकं वस्तुजातं समवलम्ब्योपनिबद्धं महाकविना विक्रमोर्वशीयम् ?

(३) विक्रमोर्वशीयमिति पदं व्युत्पाद्यताम् , कीदृशश्चास्मिन् पदे समासः, तत्र च विक्रमेति पदस्य प्रवृत्तिनिमित्तं प्रदर्श्यताम् । किमस्य काव्यस्य नेनुरभिधानं विक्रम इति ! भवदुत्तरमुखेन व्याख्यायतां वक्तृबोद्धव्यपुरस्सरं "अनुत्सेकः खलु विक्रमालङ्कारः" इति ।

( ४ ) रूपकाणि कतिविधानि ? विक्रमोर्वशीयं तत्र त्रोटकं नाटकं वा? त्रोटकं चेत् “प्रत्यङ्कं सविदूषकं” इति त्रोटकलक्षणस्य प्रकृते काव्ये प्रथमाङ्के विदूषकादर्शने सति कथं सङ्गतिः क्रियते आयुष्मद्भिः?

(५) विष्कम्भप्रवेशकयोः को मेदः? आद्यश्च कतिविधः? सलक्षणं लेख्यम् ।

(६) विक्रमोर्वशीयस्य वस्तूपगमः कविप्रतिभाया एवोतैतिह्यात् ? आद्यश्चेत् कथमिदं काव्यं प्रकरणाद्भिद्यते। परश्चेद्भवतः पक्षः यतः उद्धृतं वस्तु तन्नामोल्लिख्यताम् । यदि तदन्तर्गतवर्णनमुपन्यस्याख्यानात् भवन्मते भवेयुः कतिचिद् वैषम्यपदानि तानि प्रदर्श्यानि । एवञ्च कृतौ महाकवेः किं सिसाधयिषितं, कथं वा काव्यस्योपकृतं वैषम्येणेति स्फुटं प्रतिपाद्यताम् ।

(७) रूपकस्यास्येतिवृत्तं समासेनोपन्यस्यताम् । तत्र च “केशिनोर्वशीहरणं" "चित्ररथसमागमः", "लक्ष्मीस्वयंवरस्य दिवि प्रयोगवर्णनम्", "भरतस्य शापवार्ता," "कुमारीवनप्रवेशप्रसङ्गः", “सङ्गमनीयमणिकथानकं" "सत्यवतीप्रवेशः" "नारददर्शनं" चैतेषां प्रसङ्गानामुपादानेन नाटकीयवस्तुनः कथमुपकृतिरिति सोपपत्तिकं प्रतिपाद्यम् ।

(८) का वा उदयवती ? तस्यादर्शनस्य को वा प्रसङ्गस्तेन च को लाभो रूपकोपबृंहणे?

(९) अस्य रूपकस्य को नेता ? रूपकाणाञ्च नेतारः कतिविधाः? तेषु कीदृशो वास्य काव्यस्य ? लक्षणान्युपन्यस्य सनिदर्शनं लक्षणं सङ्गमनीयम् ।

(१०) कस्यापि रूपकस्याभिधानं नायकयोर्नाम्ना कविभिराद्रियते चेत् तदा नायिकाया एव प्रथमोद्देशः यथा मालतीमाधवमालविकाग्निमित्रमल्लिकामारुतादिप्रबन्धेषु; एवं सति प्रकृते काव्ये नायिकाया उत्तरोद्देशे किं बीजमित्यालोच्य वक्तव्यं चिरञ्जीविभिः।