पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६२

सुधास्यन्दिव्याख्याविरहविधुरस्तत्रभवतः
कवीशस्यायं सद्भणितिदृढ़बन्धोऽमितगुणः ।
चिरान्मूच्छामाप्तो मम भुवि सदा कल्पलतिकां
रसोल्लासां श्रित्वा प्रचुरफलयोगं हि लभताम् ॥ ८ ॥

ब्रह्मक्षत्रविडन्तजन्मबहुलां भूम्ना महीं शासतो
दाक्षिण्योदहिधोल्करान्वयसमुद्भूतस्य शीतद्युतेः ।
प्रत्यक्षीकृतनैकदेशजनतातत्तत्कलाकौशल-
श्रीलश्रीयशवन्तरावनृपतेर्ज्योत्स्नाश्रये राजतः ॥

विद्याबन्धुचणस्य संस्कृतमहाविद्यालयाध्यक्षता-
मारूढस्य सुरेन्द्रनाथविदुषः संवत्सरे नन्दने ।
मुन्यङ्काङ्कवसुन्धरापरिमिते मासे सहस्येऽसिते
पक्षेऽनङ्गतिथावियं गुरुदिने याता समाप्तिं कृतिः ॥

(युग्मकम्)

॥ इति ॥