सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४४
विक्रमोर्वशीये

 तापसी-एव्वं करेमि । [एवं करोमि ।]

 उर्वशी-भअवदि ! पादवन्दणं करेमि। [भगवति ! पादवन्दनं करोमि ।]


  राजा-भगवति! प्रणमामि ।

 तापसी-सोत्थिं भोदु तुम्हाणं । [स्वस्ति भवतु युष्मभ्यम् ।]

(इति निष्क्रन्ता)

 राजा-सुन्दरि !

अद्याहं पुत्रिणामग्र्यः सुपुत्रेण तवामुना ।
पौलोमीसम्भवेनेव जयन्तेन पुरन्दरः॥ १४॥

(उर्वशी स्मृत्वा रोदिति)


मदर्थे प्रेषय । बालानां मयूरे साहजिकी आसक्तिस्तेषां लोभनीयरूपनृत्यकेकाप्रभृतित्वात् । अतः कुमारेण स्वबालभावस्य सदृशं हि आचरितमनयाभ्यर्थनया।

 "कलापः संहते बर्हे" इति कोषः । अत्र कुमाराणां निसर्गवर्णनात् स्वभावोक्तिः । इयमार्याजातिः॥१३॥

 तापसी-(कुमारं प्रति ।) एवं करोमि, प्रेषयिष्यामि ते मयूरमिति ।

 उर्वशी-भगवति सत्यवति ! पादवन्दनं करोमि।

 राजा-भगवति प्रणमामि ।

 तापसी-स्वस्ति भवतु युष्मभ्यम् । भद्रमस्तु उभयोरित्यर्थः । स्वस्तियोगे चतुर्थी।

(इति निष्क्रान्ता ।)

 राजा-सुन्दरि ! उर्वशीसम्बोधनम् ।

 अद्येति तव अमुना अनेन सुपुत्रेण सद्गुणगणविशिष्टेन पुत्रेण अहं पुत्रिणां तनयवतां पुरुषाणां अग्र्यः प्रधानः । ये केचन जनाः पुत्रेण भाग्यवत्त्वमामनन्ति तेषां भाग्यशालिनामहमग्रेसरः ईदृशेन सत्पुत्रेण पुत्रित्वात् । तत्रोपमानम्-पौलोमीसम्भवेन शच्यां समुत्पन्नेन जयन्तेन इन्द्रतनयेन पुरन्दरः इन्द्र इव । यथा जयन्तेन इन्द्रः शोभतेतराम् तथैवामुना तनयेनाहमिति । अत्र इन्द्रसदृशत्वम् नरेन्द्रस्यावगम्यते । पुरन्दरः इत्यत्र "खश्" प्रत्ययो मुमागमश्च । एतादृक् वर्णनं रघुवंशेऽपि “यथा जयन्तेन शचीपुरन्दरौ" इत्यादि । अनुष्टुप् वृत्तम् ॥ १४॥

(उर्वशी स्मृत्वा रोदिति किमपि पुरातनं स्मृत्वेत्यर्थः)