राजा-तत्रभवते च्यवनाय मम प्रणाममावेदयिष्यसि ।
तापसी-एव्वं भोदु । [एवं भवतु ।]
कुमार:-आर्ये ! सत्यमेव निवर्तनम् ? इतो मामपि नेतुमर्हसि।
राजा-अयि वत्स ! उषितं त्वया पूर्वस्मिन्नाश्रमे । द्वितीयमध्यासितुं तव समयः।
तापसी-जाद ! गुरुणो वअणं अणुचिट्ठ [जात ! गुरोर्वचनमनुतिष्ठ ।]
कुमार:-तेन हि
यः सुप्तवान् मदङ्के शिखण्डकण्डूयनोपलब्धसुखः। |
युज्यते । परस्परसम्मेलनं जातम् । पुनराश्रमधर्मस्य परिपालनाय भवत्याः गमनमुचितम् । तद्गच्छतु आर्या पुनर्दर्शनाय । भवत्याः पुनरपि दर्शनं प्रतीक्षामहे इति भावः।
राजा-आर्ये ! तत्रभवते पूज्याय च्यवनाय महर्षये मम प्रणाममभिवादनम् आवेदयिष्यसि समर्पयिष्यसि । निवेदनीयमित्यर्थः ।
तापसी-एवं भवतु निवेदयिष्यामि ।
कुमार:-आर्य इति सत्यवतीसम्बोधनम् । सत्यमेव निवर्तनम् , यथार्थमेव त्वं प्रतिनिवृत्तासि स्वाश्रमम् । इतः अस्मात्स्थानात् मामपि नेतुमर्हसि । अहमपि चलामि मामपि नय । अत्र बालकस्य एतावत्कालपर्यन्तं तया सहोषितत्वात् कोमलहृदयस्य तत्रैवाभिनिवेशः।
राजा-अयि वत्स! सप्रेम सम्बोधनमिदम् । त्वया पूर्वस्मिन् आश्रमे ब्रह्मचर्याश्रमे उषितं निवासः कृतः । इदानीं द्वितीयमाश्रमं गार्हस्थ्यमध्यासितुं प्रवेष्टुं एष तव समयः सम्प्राप्तः।
तापसी-जात ! गुरोः पितुर्वचनं शासनमनुतिष्ठ विधेयम् ।
कुमार-तेन हि-भवतु एवं करिष्ये । किन्तु यथा शाकुन्तले शकुन्तला कण्वं प्रति मृगीप्रसवसमये मामुपनेतुं प्रार्थयते तथैवेहापि कुमारः आरण्यकत्वात् तादृगेव तापसी याचते।
य इति-शिखण्डो बर्हस्तस्य कण्डूयनेन खर्जनेन उपलब्धमाप्तम् सुखम् निर्वृतिर्येन सः तादृशः यः मदङ्के मदुत्सङ्गे सुप्तवान् निद्रां लेभे तं जातकलापं समुद्गतपिच्छभारम् शितिकण्ठकं नीलग्रीवं तन्नामानं वा शिखिनम् मयूरम् मे