पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विक्रमोर्वशीये

 उर्वशी -वच्छ । पिदरं आराधयन्तो होहि । [वत्स ! पितरमाराधयन् भव । ] (राजानं प्रति ) जेदु जेदु महाराओ।[जयतु जयतु महाराजः।]

 राजा-स्वागतं पुत्रवत्यै। इत आस्यताम् ।

 उर्वशी -अज्जा उवविसध [आर्या ! उपविशत ।]

(सर्वे यथोचितमुपविष्टाः।)

 तापसी-वच्छे ! गिहिदविज्जो आऊ संपदं कवचारुहो संवुत्तो । एसो भत्तुणो समक्खं णिज्जादिदो सहिहत्थणिक्खेवो। ता तुम्हेहिं विसज्जिदं अत्ताणं इच्छामि । उवरुज्झइ मे अस्समधम्मो । [वत्से ! गृहीतविद्य आयुः साम्प्रतं कवचार्हः संवृत्तः। एष भर्तुः समक्षं निर्यातितः सखीहस्तनिक्षेपः । तद्युष्माभिः विसर्जितमात्मानमिच्छामि । उपरुद्ध्यते मे आश्रमधर्मः।]

 उर्वशी-कामं चिरस्स अज्जउत्तं पेक्खिअ अवहिदाहिअएण जुज्जदि पुणो अस्समधम्मं विभाविदुं । ता गच्छदु अज्जा पुणोदंसणाअ । [कामं चिरस्यार्यपुत्रं प्रेक्ष्यावहितहृदयेन युज्यते पुनराश्रमधर्मं विभावयितुम् । तद्गच्छत्वार्या पुनर्दर्शनाय ।]


  उर्वशी-वत्स! पितरमाराधयन् पितृचरणसेवापरायणो भव (राजानं प्रति) जयतु जयतु महाराजः ।

 राजा-पुत्रवत्यै ते स्वागतम्-सतनयाया विशेषतया मान्यत्वम् । इत आस्यताम्।

 उर्वशी-आर्याः सभ्याः ! उपविशत ।

(सर्वे यथोचितं यथास्थानमुपविष्टाः।)

 तापसी-वत्से उर्वशि! गृहीतविद्यः यथाविधि सुसम्पादितधनुर्वेदादिक्षत्रोचितविद्यः आयुः साम्प्रतमधुना कवचार्हः कवचस्य योग्यः युधि कवचधारणयोग्यः सम्पन्नः । अतः एष कुमारः ते भर्तुः पुरूरवसः समक्षं प्रत्यक्षं सखीहस्तनिक्षेपः त्वया मयि न्यासीकृतः इदानीं निर्यातितः समर्पितः । ततश्चाहं युष्माभिः सर्वैः विसर्जितं गन्तुमनुमतमात्मानमिच्छामि । इदानीं गमनायानुज्ञां भवद्भिर्दत्तां इच्छामीत्यर्थः । मे आश्रमधर्मश्च उपरुध्यते बाध्यते इत्यर्थः ।

 उर्वशी-चिरस्य चिरकालेन कामं यथेच्छं आर्यपुत्रं महाराजं प्रेक्ष्य दृष्ट्वा इदानीं अवहितहृदयेन सावधानेन चेतसा पुनः आश्रमधर्मं विभावयितुं पालयितुं