विदूषकः-किं णु क्खु संपदं अत्तभोदी अस्सुमुही संवुत्ता । [किं नु खलु साम्प्रतमत्रभवत्यश्रुमुखी संवृत्ता।]
राजा-(सावेगम्)
किं सुन्दरि प्ररुदिताऽसि ममोपनीते |
उर्वशी-सुणादु महाराओ। पढमं उण पुत्तदंसणसमुत्थिदेण आणंदेण विसुमरिदम्हि । दाणीं महिंदसंकित्तणेण मम हिअए ट्ठिदं समएण। [शृणोतु महाराजः। प्रथमं पुनः पुत्रदर्शनसमु-
विदूषकः-किं नु खलु किं नु कारणम् स्यात् यदधुना साम्प्रतं अत्रभवती उर्वशी अश्रुमुखी बाष्पाकुला संवृत्ता ?
राजा-(सावेगम् सोद्वेगम् सचिन्तम् वा)
किमिति-हे सुन्दरि ! मम वंशस्य कुलस्य स्थितिर्मर्यादा प्रतिष्ठा वा यस्मात्तादृशस्य पुत्रस्य अधिगमात् लाभात् स्फुरति प्रकाशमाने हृदयामोदकारके प्रमोदे अमन्दानन्दे उपनीते प्राप्ते सति किमर्थं प्ररुदितासि रोदिषि । मयि सुखिनि तवापि सुखित्वं योग्यम् न तु ईदृक् प्ररोदनमुचितमित्यर्थः । इयं प्रमोदवेला अतः किमर्थं रोदिषीति आवेगकारणम् । तस्याः रोदनं वर्णयति- पीनौ मांसलौ यौ स्तनौ तयोरुपरि निपातिभिः पतद्भिः अस्रैः बाष्पैः पुनरुक्तमिव द्वितीयामिव यथास्यात्तथा मुक्तावलीविरचनां अर्पयन्ती । उर्वशी मुक्तावलीं परिदधाना आसीत् । तस्या अश्रुबिन्दवोऽपि मुक्तासदृशा इति वर्णयति । तव एभिरश्रुबिन्दुभिः एकस्याम् मुक्तावल्यां सत्यामपि द्वितीयां मुक्तावलीविरचनां अर्पयन्ती रचयन्तीव किमिति रोदिषि?
अत्र मौक्तिकहारविरचनायाः सम्भावितकल्पनात् उत्प्रेक्षालङ्कारः । अश्रूणां मुक्तासदृशवत्प्रतिपादनात् व्यङ्ग्योपमा । अत्र पुनरुक्तमिति क्रियाविशेषणम् । यथा एकस्य सत्त्वे पुनरुक्तिर्व्यर्था तथैव एकस्य मौक्तिकहारस्य सत्तायां अन्यस्येदृशस्य व्यर्थवं क्लेशकरत्वं च । अत्र श्लेषाख्यो अर्थगुणः “एवं क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामान्याधिकरण्यरूपः संसर्गः श्लेषः" इति जगन्नाथपण्डितेन्द्रः । तथा च साम्यसौकुमार्यमाधुर्यशब्दगुणाः । अत्र च वसन्ततिलकाख्यं वृत्तम् ॥ १५ ॥
उर्वशी-शृणोतु महाराजः-प्ररुदितस्य कारणमाह-प्रथममादौ पुत्रदर्शनसमुत्थितेन पुत्रसम्मेलनजनितेन आनन्देन विस्मृतास्मि । किन्त्वधुना