राजा-
अचिरप्रभाविलसितैः पताकिना |
(चर्चरी)
पाविअसहअरीसंगमओ पुलअपसाहिअअंगअओ। |
राजा-अचिरेति-अयि खेदसलीलं गमनं गतिर्यस्याः सा तादृशि ललितगमने प्रिये ! अचिरप्रभायाः सौदामिन्याः विलसितैः प्रकाशैः पताकिना ध्वजयुतेन केतुमता वा, सुरकार्मुकम् इन्द्रधनुस्तद्रूपेण अभिनवेन नूतनेन विविधरङ्गयुतेन चित्रेणालेख्येन शोभिना भूषितेन तथा चास्माकं कृते विमानतां गगनयानत्वं गमितेन प्राप्तेन नवेन पयोमुचा मेघेन मां वसति आवासं नय।
विमाने ध्वजः, विविधानि मनोरमाणि चित्राणि भवन्ति, वर्षासमयत्वात् जलधरमेव राजा विमानत्वेन कल्पयते तत्र तादृक् कल्पने ध्वजः तु विद्युद् भविष्यति । इन्द्रधनुश्च नानारङ्गसन्दानितम् अत एव चित्रत्वं प्राप्स्यति । एतादृशेन विमानत्वमाप्तेन जलदरूपेण यानेन मां गृहं नयेति प्रार्थनम् । अत्र मेघस्य विमानत्वेन निरूपणात्, विद्युतः ध्वजत्वेन इन्द्रधनुषश्च चित्रत्वेन कल्पनात् रूपकमलङ्कारः।
अत्र प्रसादमाधुर्ये गुणौ । अनुप्रासालङ्कारश्च । मञ्जुभाषिणी वृत्तम् । लक्षणं यथापूर्वमेव ॥ ७३ ॥
(चर्चरी) हंसयूनः अन्योक्त्या आह-प्राप्तः सहचर्या सङ्गमः समागमो येन सः, पुलकेन आनन्दातिरेकजन्यरोमोद्गमेन प्रसाधितम् शोभितम् अङ्गं देहः यस्य सः, स्वेच्छानुसारं प्राप्तः विमानः येन च एतादृशो हंसयुवा विहरति । राज्ञः पक्षे सविशेषो मान उत्कर्ष इति विमानः, हंसपक्षे तु व्योमयानम् विमानम् । अङ्कस्यारम्भः अपि हंसस्यान्योक्त्या कृतः, तेनैव च समापितोऽङ्कः अनेनात्र समाधिर्नाम गुणः ॥ ७४ ॥